Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 159
________________ १५४ ] तन्दुलगैचारिकप्रकोर्णकम् संति०' सङ्कुचितभावं गच्छन्तीत्यर्थः, च पुनस्तेनैव परमवल्लभेन स्वार्थप्राप्त्यकारकेणान्तरेण-विना विकसन्ति-प्रफुलनेत्राणि भवन्तीत्यर्थः, 'तेणंतरे०' इति प्राकृतत्वात् तृतीया) सप्तमी, अपिशब्द एवार्थे, तथा कुस्त्रीणां हृदयं कदाचित् स्ववल्लभे ( न प्रवर्तते स्ववल्लभे) सत्यपि कदाचित् तासां चित्तं-स्त्रमानसं सहस्राकुलं-स्वकान्तव्यतिरिक्तपुरुषान्तरसहस्रेषु आकुलं मन्मथभावेन परिभ्रमद् भवतीत्यर्थः, शाकिनीवत् , अतो मुनिवरैः-रत्नत्रयरक्षणपरैमुक्तगृहारम्भमरैरासां कुरण्डामुण्डीदासीयोगिन्यादीनां यथा कथञ्चित् परिचयो न कार्य इति । अस्या अन्यदपि व्याख्यान्तरं सद्गुरुप्रसादात् कार्यमिति ॥ १२६ ।। अथोपदेशान्तरं दददाहजड्डाणं वड्डाणं निव्विन्नाणं च निव्विसेसाणं। संसारसूयराणं कहियंपि निरत्थयं होइ ॥१३० ॥ किं पुत्तेहिं पियाहिं वा अत्थेणवि पिंडिएण षहएणं । जो मरणदेसकाले न होइ आलेषणं किंचि ॥१३१॥ पुत्ता चयंति मित्ता चयंति भजाविणं मयं चयह । तं मरणदेसकाले न चयह सुविअजिओ धम्मो॥१३२॥ ____'जड्डाणं व.' जड्डाना-द्रव्यभावमूर्खाणां वड्डानांकेपांचित् मठपारापतसदृशानां वृद्धानां निर्विज्ञानाना-विशिष्टज्ञानरहितानां निर्विशेषाणां-अपवादोत्सर्गज्येष्ठेतरादिविशेपरहितानां संसारशूकराणां एवं विधानां गृहस्थानां साध्वा

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166