Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
तन्दुलगैचारिकप्रकीर्णकम्
[ १५१
याभिस्ताः अज्ञातशीलास्तासां, यद्वा ननः कुत्सार्थत्वात् कुत्सितं ज्ञातं शीलं साध्वीनां याभिः परिवाजिकाभिः योगिन्यादिभिस्ता अज्ञातशीलास्तासां मुनिवरैः प्रसङ्ग कान्तजल्पनैकत्रवासविश्वाससहचलनादिव्यापारो वर्जनीय इति ॥१२३॥
'अन्नं रयंति०' द्विव्यादिपुरुषसम्भवेऽन्यं-स्वभावसमीपस्थं नरं रजंति--अर्थवीक्षणादिना कामरागवन्तं कुर्वन्तीत्यर्थः, पल्लीपतिलघुभ्रातरं प्रति अगडदत्तस्त्रीमदनमञ्जरीवत् , यद्वा स्वकुशीलत्वे केनापि ज्ञाते सति 'अन्नं रयंति'त्ति अन्यद्-विषभक्षणकाष्ठभक्षणादिकं रचयन्ति-कपटेन निष्पादयन्ति यद्वा जारस्य स्वान्तःकरणज्ञापनाय 'अन्नं रयन्ति'त्ति अन्यदात्मव्यतिरिक्तं-तणतन्तुदंडादि रदन्ति-उत्पाटनं कुर्वन्तीत्यर्थः, 'रद विलेखने' इति विलेखनमुत्पाटनमिति, 'अन्नं रमंति'त्ति अन्यं-स्वकान्तव्यतिरिक्तं नरं रमन्तिमैथुनतत्पराः क्रीडन्तीत्यर्थः, पातालसुन्दरीवत्, यद्वा 'अन्नं रयंति'त्ति अन्यं-स्वकान्तव्यतिरिक्तं पुत्रभातृकान्तमित्रादिकं प्रति रामा-अधमकामाः रयि गतौ खु गतौ च रयते रम्बन्ति वा गच्छन्ति तथा द्यूतादिप्रकारेण क्रीडयन्ति वा 'अन्नस्स दिति उल्लावंति अन्यस्य-उक्तव्यतिरिक्तस्य ददति-प्रयच्छन्ति 'उल्लावंति वचनं-बोलरूपं यद्वा अनेकनरपरिवृता अप्यन्यस्य नरस्य मार्गादि गच्छतः स्थितस्य वोत्-प्राबल्येनोल्लापं-मन्मथोद्दीपनशब्दं ददतीति, 'उल्लायंति पाठे तु

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166