Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 115
________________ ११० ] तन्दुलवैचारिकप्रकोर्णकम् ष्ठयोरगुलयोः नखानां महाराजानां ( करजानां ) ये सन्धयस्तेषां सङ्घातेन-समूहेन सन्धितमिदं वपुः 'बहु' बहुरसिकागारं 'नालखं०' नालेन स्कन्धशिराभिः-अंसधमनीभिः 'अणेगण्हार'त्ति अनेकस्नायुभिः-अस्थिबन्धनशिराभिः बहुधमनिभिः-अनेकशिराभिः सन्धिभिः-अस्थिमेलापकस्थानश्च 'नई'ति नियन्त्रितं प्रकट-सर्वजनदृश्यमानमुदरकपालं-जठरकडहल्लकं यत्र तत्प्रकटोदरकपालं, कक्षैवदोमू लमेव निष्कुटं-कोटरं जीर्णशुष्कवृक्षवद् यत्र तत् कक्षनिष्कुटं कक्षायां गच्छन्तीति कक्षागाः अधिकारात्तद्गतकुत्सितवालास्तैः कलितं-सदा सहितं कक्षागकलितं यद्वा कक्षायां भवाः काक्षिका:-तद्गतकेशलतास्ताभिः कलितं, 'दुरंतंति दुष्टः अन्तो-विनाशः प्रान्तो वा यस्य तद्दुरन्तंदुष्पूर, अस्थिधमन्योः सन्तानेन-परम्परया 'संत'ति व्याप्तं यत्तदस्थिधमनिसन्तानसन्ततं, सर्वतः-सर्वप्रकारैः समन्ततः-सर्वत्र रोमकूपै-रोमरन्धैः परिस्रवत्-गलगलत् सर्वत्र सच्छिद्रघटवत् चशब्दादन्यैरपि नासिकादिरन्धैः परिस्रवत् 'सगं'ति स्वयमेवाशुचि-अपवित्रं 'सभावउ'त्ति स्वभावेन परमदुष्टगन्धीति 'कालिजयअंतपित्तजरहिययफोप्फसफेफसपिलिह'त्ति प्लीहा-गुल्म 'उदर'त्ति जलोदरं गुह्यकुणिमं-मांसं नव छिद्राणि यत्र तत् तथा 'थिविथिवंत'त्ति द्रिगद्रिगायमानं 'हियय'त्ति हृदयं यत्र तत् परमयावत् हृदयं

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166