Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
तन्दुलगैचारिकप्रकोर्णकम् [१५५ भासानामपि कथितमपि-उक्तं वक्ष्यमाणं निरर्थकं भवति, ब्रह्मदत्तोदाईपमारकादिवत् ॥ १३० ॥
'किं पुत्ते' पुत्रैः-अङ्गजैः किं १, न किश्चित् , पितृभिर्वा किं १, अर्थेनापि पिण्डितेन मीलितेन बहु केन-प्रभूतेन किं १, नन्दमम्मणादीनामिव योऽङ्गजादिकलापः मरणदेशकाले-मरणप्रस्तावे न भवत्यालम्बनं-आधाररूपं किश्चिदिति ॥ १३१ ॥ ___ 'पुत्ता च०' मातापितरौ पुत्रास्त्यजन्ति 'मित्तं' मित्राणि त्यजन्ति, सहजमित्रपर्व मित्रवत् , भार्याऽपीमं-प्रत्यक्षं जीवन्तमित्यर्थः मृतं वा स्वकान्तं त्यजति, यद्वा भार्याऽपि णमिति वाक्यालङ्कारे आपत्वादकारविश्लेषेऽमयमिति अमृतं-जीवन्तं त्यजति जीवन्तमेव स्वकान्तं मुक्त्वाऽन्यत्-पुरुषान्तरं भतत्वेन प्रतिपद्यते वनमालावत् , यस्मिन् प्रस्तावे ते पुत्रादयस्त्यजन्ति 'त'मिति तस्मिन् प्रस्तावे मरणदेशकाले च न त्यजति 'सु'इति जिनाज्ञापूर्वकदृढभावेन 'वी'ति विशेषेण निरन्तरकरणेनार्जितो आरित्ररूप इति ॥ १३२॥
अथ गाथाचतुष्टयेन धर्ममाहात्म्यं वर्णयन्नाहधम्मी ताणं धम्मो सरणं धम्मो गई पहा य । धम्मेण सुचरिएण य गम्मद अजरामरं ठाणं ॥१३३॥

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166