SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ सूत्र-४९७-५०४ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [४१५ + मिगः खलश्चैश्च ॥ ४६॥ अपणे, इत्यस्मात् खलश्चकारात् कलश्च प्रत्ययौ भवतः, एकारश्चान्तादेशो भवति । मेखला-गिरिनितम्बः, रशना च । मेकलः-नर्मदाप्रभवोऽद्रिः । मिग एत्ववचनामात्वबाधनार्थम् ॥ ४६७ ॥ श्व ॥४८॥ शश् हिंसायाम् , इत्यस्मात् खलः प्रत्ययो भवति, नकारोऽन्तो ह्रस्वश्च भवति । शृङ्खला लोहरज्जुः, शृङ्खलः शृङ्खलं वा ।। ४९८ ।। शमि-कमि-पलिभ्यो बलः ।। ४६ ॥ एभ्यो बलः प्रत्ययो भवति । शमूच उपशमे शम्बल-पाथेयम् । कमूङ कान्ती, कम्बलः-ऊर्णापटः । पल गती, पल्वलम् अकृत्रिमोदकस्थानविशेषः ।। ४६६ ।। तुल्वलेल्पलादयः॥ ५००॥ तुल्वलादयः शब्दा वलप्रत्यान्ता निपात्यन्ते । तुलील्योणि-लुग्गुणाभावश्च । तुल्वलः-ऋषिः, यस्य तौल्वलिः पुत्रः । इल्वलः-असुरः, योऽगस्त्येन जग्धः, मत्स्यः, यूपश्च । इल्वला:-तिस्रो मृगशिरःशिरस्ताराः । आदिग्रहणात् शाल्वलादयो भवन्ति ।। ५०० ।। शीङस्तलक्पाल-वालण-वलण-वलाः ॥ ५०१ ॥ शीङ्क् स्वप्ने, इत्यस्मात् तलक-पाल-वालण्-वलण वल इत्येते प्रत्यया भवन्ति । शीतलं-अनुष्णम् , शेपालम् , जपादित्वात् पस्य वत्वे शेवालम् , शैवालम् , शैवलम् , शेवलं पञ्चकमपि जलमलवाचि ॥ ५०१ ।। रुचि-कुटि-कुषि-कशि-शालि-द्रभ्यो मलक् ।। ५०२॥ एभ्यः किन् मलःप्रत्ययो भवति । रुचि अभिप्रीत्यां च, रुक्मलं-सुवर्णम् , न्यङ क्वादित्वात् कत्वम् । कुटत् कौटिल्ये, कुट्मलम् मुकुलम् । कुष्श् निष्कर्षे, कुष्मलं तदेव, बिलं च । कश शब्दे तालव्यान्तः, कश्मलं-मलिनम् । शाडङ श्लाघायाम् , लत्वे शाल्मल:वृक्षविशेषः । दूं गतौ, द्रुमलं-जलं, वनं च ।। ५०२ ।। कुशि-कमिभ्यां कुल-कुमौ च ।। ५०३ ॥ आम्यामलक् प्रत्ययो भवति । अनयोश्च यथासंख्यं कुल-कुम इत्यादेशौ च । कुश्च श्लेषणे, कुल्मलं-छेदनम् । कमूङ कान्तौ, कुम्मलं-पद्मम् ।। ५०३ ।। पतेः सलः ॥ ५०४॥ पत्लु गती, इत्यस्मात् सलः प्रत्ययो भवति । पत्सलः-प्रहारः, गोमान् , आहारश्च ।। ५०४॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy