________________
- [९४] भाववत्तादृशपक्षात्मकदोषस्य पूर्वोक्तसम्बन्धेन वक्तृत्वात्मकहेतौ सत्त्वेन वक्तत्वस्य हेतोर्दुष्टतया तस्य न तादृशपक्षकसर्वज्ञभेदानुमापकत्वमिति न भवतां प्रतिज्ञातार्थसिद्धिरिति ॥ २८ ॥ - ननु सर्वज्ञात्मकपक्षे परप्रकल्पितस्य सर्वज्ञस्य व्यवच्छेदः साध्यते, एवञ्च न भवन्मतसिद्धः सर्वज्ञः सम्पद्यते इति पूर्वपक्षिणां युक्ति पूर्वपक्षोत्तरपक्षाभ्यां खण्डयति
परप्रकल्पितस्यैव, व्यवच्छेदोऽथ साध्यते । तदयुक्तं यतः शब्दो, न ते भावं व्यपोहते ॥२९॥
(अन्वयः) अथ, परप्रकल्पितस्य, एव, व्यवच्छेदः, साध्यते, तत्, अयुक्तम् , यतः, शब्दः, ते, भावम् , न, व्यपोहते ।
वृत्तिः-अथ-यदि । अव्ययानामनेकार्थत्वात् । परप्रकल्पितस्य-परेण-अन्येन भवताऽऽर्हतेनेति यावत्, प्रकल्पितः साधितः परप्रकल्पितस्तस्य तथा भवन्मतसिद्धसर्वज्ञस्येति यावत् । एवखलु। व्यवच्छेदो-भेदः । साध्यते-सिद्धीक्रियते; साधनानुकूलकृतिविषयी क्रियते इति यावत् । तत्-बुद्धिविषयीभूतपरप्रकल्पितभेदसाधनम् । भवतामिति शेषः । अयुक्तम्-अनुचितम् , युक्तिविरहित. मितियावत् । अयुक्ततामेव प्रदर्शयति-यत इत्यादिना। यत:-यस्मात् कारणात् । शब्द:-" असौ न सर्वज्ञो वक्तृत्वाद्देवदत्तवत्"
१. स्वं वक्तृत्वाभाववत्तादृशपक्षात्मकदोषस्तज्ज्ञानं वक्तृत्वाभावानकिञ्चिज्ज्ञो वक्तृत्वश्चेतिसमूहालम्बनात्मकम् , तद्विषयः प्रकृतो हेतुर्वक्तृत्वम् हेतुतावच्छेदकं वक्तृत्वत्वम् तद्वत्त्वस्यवक्तृत्वे हेतो सत्त्वेन तस्य हेतोर्दुष्टत्वमवसे यम् ।