Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
युक्त्यनुशासनं । पादानहेत्वपेक्षित्वादुत्तरोत्तरचितस्येति मतं तदापि तदुत्तरं चित्तमुत्पन्नं सत्स्वहेतुमपेक्षतेऽनुत्पन्नमसद्वा । न तावत् प्रथमः पक्षः । सतः सर्वनिराशंसत्त्वादुत्पन्नस्य हेत्वपेक्षत्वविरोधात् । द्वितीयपक्षे वसत्खपुष्पं न हि हेत्वपेक्षं दृष्टं । एतदुक्तं भवति, यदसत् तन्न हेत्वपेक्षं दृष्टं यथा खपुष्पं असच्चोत्पत्तेः पूर्वं कार्यचितमिति ततो न सिध्यत्युभयोरसिद्धं । न हि किंचिदसदपि हेत्वपेक्षं वादिप्रतिवादिनोरुभयोः सिद्धमस्ति । यन्निदर्श नीकृत्योत्तरमुत्तरं चित्रमनुत्पन्नमपि तद्धेत्वपेक्षं साध्यते तदसाधने च कथं तद्धेत्वपेक्षत्वेनापि समानरूपाश्चित्तक्षणाः केचिदेवैक संतानभाजः सिद्धेयुर्यतः कारणकार्यभावस्तेषामुपादानोपादेयलक्षणः स्यात्, वास्यवासकभावहेतुरिति न तत्र वासना संभवति भिन्नसंतानचित्तक्षणवत् ततः सूक्तं सूरिभिरिदम
तथा न तत्कारणकार्यभावा निरन्वयाः केन समानरूपाः । असत् खपुष्पं न हि हेत्वपेक्षं
दृष्टं न सिध्यत्युभयोरसिद्धम् ॥ १२ ॥
टीका - खंडशोऽस्य व्याख्यानात् । यथा च हेतोरपेक्षकं फल चित्तमसन्न घटते तथा हेतुरपि फलचिरस्यापेक्षणीयो न संभवत्येवेत्याहु:-- नैवास्ति हेतु: क्षणिकात्मवादे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org