Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
टोकासहितं। बुद्धिसंचरणानुपपत्तेस्तथानाद्यनंतात्मदृष्टिरपि तदभावेऽहंतापत्यभिज्ञानस्यानुपपत्तेः । चित्तसंतानोऽहंताप्रत्यभिज्ञानहेतुरिति चेत् न, तस्यावस्तुत्वात् , वस्तुत्वे वा स एवात्मा स्यानाममात्रभेदात् । ततः कथंचिन्नित्यस्य क्षणिकस्य चात्मनो दर्शरहंकारनिबंधनजन्मपन्यस्य म हहेतुकाहंकारनिवृत्तिहेतुत्वसिद्ध नस्याविद्यातृष्णाशूबंधस्योपशमोपपत्तेर्न नैरात्म्यभावनोपशमविधेर्मार्गः सिध्येत्पुरुषाद्वैतभावनावत् ।
न हि पुरुषद्वैते संसारमोक्षतत्कारणसंभवो द्वैतप्रसंगात् । नापि केचिल्लोकाः सन्ति तेजोनिधिर्वा यस्तान् ज्यालयति भाति च परमात्मनि सन्येव नासतीति मोहान्धकारापहो बोध-- मयप्रकाशविशदोऽन्तर्यामी पुरुषः सिद्धयेत् , तस्मिंश्च ये संशेरते ते हताः स्युः । सर्वस्यास्य प्रपंचस्थानाधविद्यावलात्परिकल्पने च न परमार्थतः कश्चिदुपशमविधेर्मार्गः स्यानैरात्म्यदर्शनवत् । एतेनेश्वरादिरेवोपशमविधेर्गि इति ब्रुवनिरस्तः, तस्याप्युपपत्तिवाधितत्वात्सुगतादिवदित्याप्तपरीक्षायां विस्तरतस्तवार्थालंकारे च निरूपितं ततः प्रतिपत्तव्यं ।
नन्वेवं भगवति वर्द्धमाने रागादेव भवतां स्तोत्रं द्वेषादेव चान्येषु दोषोद्भावनं न पुनः परमार्थत इत्याशंकां निराकुर्वन्तो वृत्तमाहुः-- न रागान्नः स्तोत्रं भवति भवपाशच्छिदि मुनौ न चान्येषु द्वेषादपगुणकथाभ्यासखलता।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
Loading... Page Navigation 1 ... 190 191 192 193 194 195 196 197 198