Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 164
________________ टोकासहित। १५६ शिविरोधात् तदर्थक्रियालक्षणस्य साध्यस्य सिद्धयभावात् । र. श्यविकल्प्ययोरेकत्वाध्यवसायात प्रवृत्तौ साध्यं सिद्ध्यतीति वेत, न, तदेकत्वाध्यवसायस्यासंभवात्, न हि दर्शनं सदेकत्वमध्यवस्यति तस्य विकल्पाविषयत्वात्, नापि तत्पृष्ठभाविविकत्यस्तस्य दृश्याविषयत्वान्न चोभयविषयं ज्ञानान्तरमेकं संभवति यतस्तदेकत्वाध्यवसायात् व्यावृत्तिमात्रादन्वयहीनादन्यापोहसामान्यं सिद्धयेत् । स्वलक्षणेष्विति न साध्यसिद्धिः। तथान्वयव्यावृत्तिहीनादद्वितयादेव सन्मात्रप्रतिभासात्सत्ताद्वैतसिद्धिरित्यपि न सम्यक्, सर्वथाऽप्यद्वितये साध्यसाधनयोरेंदासिद्धौ कुतः साधनात्साध्यं सिद्धयेदसिद्धौ चाद्वितयविरोधात् । यदि पुनरद्वितयेऽपि संविन्मात्रेऽसाधनव्यावृत्या साधनमसाध्यव्यावृत्त्या च साध्यमित्यतद्व्युदासाभिनिवेशवादःसमाधीयते, तदाऽपि पराभ्युपेतार्थविरोधवादः सौगतस्य स्यात् । पराभ्युपगतो हि संविदद्वैतलक्षणोऽर्थस्ताथागतैः स चातदव्युदासाभिनिवेशवादेनातव्यावृतिमात्राग्रहवचनरूपेण वि. रुध्यते कस्यचिदसाधनस्यासाध्यस्य चार्थाभावे तदव्यावस्या साध्यसाधनव्यवहारानुपपत्ते वे च द्वैतसिद्धेरप्रतिक्षेपार्हत्वादिति सौगतानां पूर्वाभ्युपेतार्थविरोधवादः प्रसज्येत । यदि तु साधनमनात्मकमेव न वास्तवं सौगतैरभ्युपेयते नाऽपि साध्यं तस्य संवृत्या कल्पिताकारत्वात्ततो न पराभ्युपेतार्थविरोधवादः स्यादिति निगद्यते । तदा दुषणमाये. दयन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198