Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
१६
युक्त्यनुशासनं । मान्यं वा प्रत्येतुं प्रमाणतः शक्नोतीति न तस्याप्रमाणता शक्या समापादोयतुमनंतसमाश्रयस्यैव सामान्यस्य मानताऽघटनादिति यदि मन्यन्ते सामान्यवादिनस्तदैवं प्रष्टव्या:किमेतत्सामान्यं स्वव्यक्तिभ्योऽन्यदनन्यद्रा ? न तावदन्यत्वमस्य सदेकस्वभावाश्रयसामान्यस्य स्वव्यक्तिभ्यो भेदे तासामसदात्मकत्वासंगालागभावादिवत्, व्यक्तेरसदात्मकत्वे च सत्सामान्यस्याप्यसदात्मकत्वापत्तिरसद्व्यक्तित्वादभावमात्रवत् । ततथानात्मनोक्तिसामान्ययोरन्यत्वं कस्यान्नैव स्यादित्यर्थः। तददिष्ठमिह प्रसिद्ध द्वयोरभावे पुनरद्विष्ठपन्यत्वं केति संबंधनीयं एवं द्रव्यव्यक्तेद्रव्यैकात्मसमाश्रयस्य द्रव्यत्वसामान्यस्य भेदेऽप्यद्रव्यत्वप्रसंगो गुणादिवत् । तदद्रव्यत्वे च द्रव्यत्वसामान्यस्यानात्मत्वापत्तिरित्यनात्मनोद्रव्यव्यक्तिद्रव्यत्वसामान्ययोरन्यत्वं कस्यात् १ तस्याद्विष्ठत्वेन च द्वयोरभावे काद्विष्ठमन्यत्वमिति घटनीयं । तथा गुणत्वसामान्यस्य कर्मत्वसामान्यस्य चैकगुणात्मसमाश्रयस्यैक कर्मात्मसमाश्रयस्य च गुणव्यक्तः कर्मव्यतेर्वा भेदे गुणव्यक्तेरगुणत्वप्रसंगः कर्मव्यक्तेश्चाकर्मत्वप्रसंगस्तदनात्मकत्वे च गुणत्वसामान्यम्य कर्मत्वसामान्यस्य चाऽनात्मकत्वापत्तिरित्यनात्मनोर्गुणव्यक्तिगुणत्वसामान्ययोः कर्मव्यक्तिकर्मत्वसामान्ययोश्चान्यत्वं क स्यात् ? द्वयोरभावे चाद्विष्ठमन्यत्वं केनि प्रतिपत्तव्यं ततो नान्यत्सामान्य स्वव्यक्तिभ्यो व्यवतिष्ठते । नाऽप्यनन्यत्, सामान्यस्य व्यक्तौ प्रवेशे व्यक्तिरेव स्यान्न च सामान्याभावे सा संभवतीत्यनात्मा स्यात्तदनात्मत्वे
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
Loading... Page Navigation 1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198