Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
टीकासहितं ।
शेषस्यापि चेतनासामान्यवदात्मनोऽर्थान्तरत्वे कुतो न गगनादेविशेषोऽचेतनत्वादिति शरीरादाविव पुंस्यपि प्रवृत्तिर्न सिध्येत्तदसिद्धौ न तत्रैव प्रयत्नसिद्धिरिच्छाद्वेषसिद्धिर्वा सुखदुःखबुद्धिश्चेति न कर्ताऽत्मा सिध्येत, कार्य वा यतः कालांतरस्थे
कर्तकार्य न विरुध्येते क्षणस्थितिबुद्धयादिवत् । __ अथवा महदादिः कालांतरस्थायी नित्यात्प्रधानादपृथग्भूतः पृथग्भूतो वा ? प्रथमपक्षे न कर्तृकार्ये, विकारस्य हानेः, कत प्रधान, कार्य महदादिव्यक्तं, तयोश्चापृथग्भावे यथा प्रधानमविकारि तथा महदादि व्यक्तमपि तदपृथक्त्वात् प्रधानस्वरूपवत् तथा च न कार्य प्रधानवत, कार्याभावे च कस्य कर्तृ प्रधानं स्याद्विकारस्य कार्यस्याभावात् ततो नापृथक्त्वे व्यक्ताव्यक्तयोः कर्तृकार्ये व्यक्ताव्यक्ते स्यातां। द्वितीयपक्षेऽपि न कर्तृकार्ये, तथा हि-न प्रधानं कर्तृ महदादिकार्यात् पृथग्भूतत्वात पुरुषवत् , विपर्ययप्रसंगो वा महदादि च न कार्य कर्तुरभावात्पुरुषवत् । न हि प्रधानं महदादेः कर्तृ तस्याविकारित्वात्पुरुस्वदिति नासिद्धः कर्तुरभावः । यदि पुनर्व्यक्ताव्यक्तयोरपृथयत्वपृथक्त्तभ्यामवाच्यता स्वीक्रियते तदाऽप्यपृथक्त्वपृथक्त्वावचनीयतायां न कर्तृकार्ये विकारस्य हानेः पुरुषभोक्तृत्वादिवत् । पुरुषाद्धि भोक्तृत्वादिरपृथक्त्वपृथक्त्वाभ्यामवचजीयोऽन्यथा तदपृथक्त्वेन भोक्ता नित्यः सर्वगतोऽक्रियो निर्गुणोऽकर्ता शुद्धो वा सिध्येत् पुरुष एव भोक्तृत्वनित्यत्वसर्वगतत्वाक्रियत्वनिर्गुणत्वाकर्तृत्त्वशुद्धत्वधर्माणामन्तर्भावा
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org