Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
टोकासहित।
संप्रति सामान्यमनंतसमाश्रयमप्रमाणकमवस्थाप्य पक्षांतरमनूय दूषयंतिनानासदेकात्मसमाश्रयं चे
दन्यत्वमाद्वष्ठमनात्मनोः क। विकल्पशून्यत्वमवस्तुनश्चे
तस्मिन्नमये क खलु प्रमाणम् ॥५६॥ टीका-नाना च तानि संति च नानासंति विविधद्रव्यगुणकर्माणि तेषां नानासतामेकात्मा सदात्मा वा द्रव्यास्मा वा गुण त्मा वा कर्मात्मा वा स एवाश्रयो यस्य सामान्यस्य तन्नानासदेकात्मसमाश्रयं । एको हि सदात्मा समाश्रयः सत्तासामान्यस्य स चैकसद्व्यक्तिमनिभासकाले प्रमाणतः प्रतीयत एव तदन्यद्वितीयादिसव्यक्तिमतिपचिकालेऽपि स एवाभिव्यक्ततामियर्तीति तन्मात्राश्रयस्य सामान्यस्य प्रमाणं ग्रहणनिमित्तमम्त्येव तस्यानंतस्वभावसमाश्रयस्यैव मानं नास्तीति गवस्थितेः। तथैको द्रव्यात्मा समाश्रयो द्रव्यत्वसामान्यस्य, गुणात्मा गुणत्वसामान्स्य, कर्मात्मा कर्मत्वसामान्यस्येति, तम्यै कां द्रव्यव्यक्ति द्वितीयां च प्रतीयन् द्रव्यस्त्रभावमेकमेव प्रत्येति तत्समाश्रयं च द्रव्यत्वसामान्यमिति सदात्मा समाश्रयः, न तस्यामानता, एवं गुणव्यक्तीः कर्मव्यक्तीर्वा द्विवाः पश्यन् गुणस्वभावं कर्मस्वभावं च पश्यतीति गुणकात्मसमाश्रयं कभैकात्मसमाश्रयं वा गुणत्वसामान्यं कर्मत्वसा.
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org