Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 184
________________ टोकासहितं। पृथिव्यप्तेजोऽसाधारणगुणो गंधरसरूपविशेषगुणः पार्थिवाप्यतेजसघ्राणरसननयनेन्द्रियग्राह्यः, वाय्वसाधारणगुणश्च शब्दस्तस्माद्वायवीयस्पर्शनेन्द्रियग्राह्य इति श्रोत्रपरिकल्पनावैयर्थ्यमापद्येत । यदि पुनराकाशसहकारिकरणात्वाच्छब्दस्याकाशसमवायेन श्रोत्रेण ग्रहणमुररीक्रियते तदा स्पर्शस्याऽपि श्रोत्रग्राह्यन्वप्रसंगस्तस्याप्याकाशसहकारिवायूयादानत्वाच्छब्दवत् । गन्धादीनां च श्रोत्रवेद्यत्वं स्यादाकाशसहकारिपृथिव्याधुपादनत्वात् । न ह्याकाशं कस्यचिदुत्पत्तौ स्वोपादानात्सहकारिन भवेत्, सर्वोत्पत्तिमतां निमित्तकारणाकालादिनत् । स्यान्मतं, नाऽयं नियमोऽस्ति यो यदसाधारणगुणः स तदिन्द्रियग्राह्य इति पार्थिवस्य पंचपकारस्य वर्णस्य षट्पकारस्य रसस्यानुष्णाशीतस्य पाकजस्य म्पर्शम्य च पार्थिवघ्राणेंदिगग्राह्यत्वप्रसंगात्तथा शीतस्पर्शस्य शीतस्य च रूपस्याप्यरसनेन्द्रियवेद्यत्वं, तैजसस्य चोष्णस्पर्शस्य तैजसचतुर्वेद्यत्वं कथं विनिवार्यत ? तनियमकल्पनायामिति यस्य यस्मा दिद्रिय विज्ञानमुत्पद्यते तस्य तदिद्रियग्राह्यत्वं व्यवतिष्ठते तथा प्रतीतेरतिलंघयितुमशक्तेः केवलमिंद्रियस्य प्रतिनियतद्रव्योपादानत्वं साध्यते प्रतिनियतगुणग्राहकत्वादिति । तदेतदसार, प्रतिनियतद्रव्योपादनत्वस्य घ्राणादीनं सार्धायतुमशक्यत्व त । पार्थिव प्राणं रूपादिषु सन्निहितेषु पार्थिवगन्धस्यैवाभिव्यंजकन्वान्नागकर्णिकाविमर्दककरतलवदित्यनुमानस्य सूर्यरश्मिभिरुदकसेकेन चानेकान्तात् । दृश्यते हि तैलाभ्यक्तस्य सूर्यमरीचि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198