Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
टोकासहितं।
रभत इति मतं तदा तत एव प्रवक्तव्यापारात्मतिनियतवाय्वाकाशसंयोगेभ्यस्तत्सदृशानि शब्दान्तराणि प्रादुर्भवन्तु किमायेन शब्देनासमवायिकारणेनेति न शब्दाच्छब्दस्योत्पत्तिर्घटते ; नैकः शब्दः शब्दान्तराणामारंभक: संभवति । अथाऽनेकः शब्दः प्रथमत उत्पन्नःशब्दान्तराणि नानादिक्कान्यारभते इति द्वितीय: पतः कक्षीक्रियते तत्राऽप्येकस्मात्तावाद्याकाशसंयोगात्कथमनेकः शब्दः प्रादुर्भवेदहेतुकत्वप्रसंगादेकस्मादेकस्यैवोत्पत्तेः शेषस्य हेत्वभावात् । न चानेकतावाद्याकाशसंयोगः सकृदेकस्य वक्तुः संभवति प्रयत्नैकत्वात् , न च प्रयत्नमन्तरेण ताल्वादिक्रियापूर्वकोऽन्यतरकर्मजस्तालवाद्याकाशसंयोगः प्रसूयते यतोऽनेकः शब्दः स्यात् । प्रादुर्भवन्या कुतश्चिदायः शब्दोअनेकः स्वदेशे शब्दान्तराण्यारभते देशान्तरे का ? न तावस्वदेशे देशान्तरेषु तन्छ्रवणविरोधात् भिन्न देशस्थश्रोतृजनश्रोत्रेषु समवायाभावात् , तत्रासमवेतस्याप्यनेकस्य शब्दान्तरस्य श्रवणे श्रोत्रस्याप्राप्यकारित्वापत्तेः, शब्दान्तरारंभपरिकल्पनावैयच्चिाद्यस्यैव शब्दस्य नानादिक्कोग्यदेशस्थैः श्रोतृभिः श्रवणस्योत्पत्तेः, अनेक द्यशब्दपरिकलानावयाच्च तस्यैकस्यैव स्वदेशे प्रादुर्भूतस्य नानाश्रोभिरुपलंभात् देशे सतो रूपस्य नानादृष्टिभिरुपलंभवत् । स्यान्मतं, नायनरश्मयः प्राप्य रूपमेकदेशवयपि नानाद्रष्टजनानां रूपोपलंभं जनयंति न पुनरप्राप्य येन रूपोपलंभो दृष्टान्तः शब्दोपलंभस्याप्राप्तेरेव श्रोत्रैः साध्यत इति तदपि न श्रेयः । श्रोत्रक्वित्तविशेषैः प्रा
Jain Education International
For Private & Personal Use Only
-www.jainelibrary.org
Loading... Page Navigation 1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198