Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
टोकासहितं।
१६६ व्यस्य स्याद्वादिभिरभिधीयते । तत्र पुद्गलद्रव्यस्यानादिनिधनस्य पर्यायः शब्दोद्रव्यमनित्यमिति तावनिश्चीयते, द्रव्यं शब्दः क्रियागुणयोगित्वात्पृथिव्यादिवत् , क्रियावांश्च शब्दः प्रवक्तृदेशादेशान्तरमाप्तिदर्शनाद सायकादिवत्तथा संख्यासंयोगविभागादिगुणाश्रयत्वेन प्रतीयमानत्वात् गुणवानपि शब्दः प्रसिद्धः पृथिव्यादिवदेव । न हि शब्देषु संख्या न प्रतिभासते कस्यचिदेकं वाक्यं द्वे वाक्ये त्रीणि वाक्यानीत्यादिसंख्याप्रत्ययस्थाबाध्यमानस्य प्रतीचमानत्वात् , तथा क्षकारादीनां संयुक्ताक्षराणां प्रतीतेः संयोगोपि शब्दानां प्रतीयत एव, सकारादेर्जात्यन्तरस्योत्पत्तेरसयोगात्मकत्वपरिकल्पनायां दंडपुरुषसंयोगोऽपि माभूतथा दंडिनो जात्यंतरस्य द्रव्यस्य प्रादुर्भावादिति सर्व प्रतीतिबाधितमनुषज्यते । ततः प्रतीतिमबाधितामिच्छद्भिः शब्दः क्रियागुणयोगी तथा प्रतीतेरभ्युपगंतव्यः। एतेन न क्रियागुणयोगी शब्दोऽवरगुणत्वातन्महत्त्वव. दित्यनुपानं प्रत्युक्तं पक्षस्य प्रत्यक्षानुमानबाधितत्वात्कालात्ययापदिष्टत्वाच्च हेतोः शब्दस्याकाशगुणत्वासिद्धेश्व। आकाशविशेषगुणः शब्दः सामान्यविशेषवत्त्वे सत्याकाशात्मककरणग्राह्यत्वात् । यो यदात्मककरणग्राह्यः स तद्विशेषगुणो दृष्टो यथा पृथिव्यात्मककरणग्राह्यो गंगः पृथिवीविशेषगुणः, अकाशात्मकश्रोग्राह्यश्च शब्दस्तस्मादाकाशविशेषगुण इत्यनुमानादाकाशविशेषगुणत्वसिद्धिरित्यपि न सम्यक् , सत्मनिपक्षत्वादनुमानस्य । तथा हि-नाकाशविशेषगुणः शब्दः सामान्यविशेषवचे सति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198