Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 196
________________ १८१ टोकासहितं । दतो न तत्सकलसंसारहेतुप्रतिपक्षः, नाऽपि वैराग्यं तत्प्रतिपक्षः कस्यचिन्मूर्खस्य तपस्विनः सत्यपि वैराग्ये मिथ्याज्ञानस्य स - द्भावात् । तत्रज्ञानमेव वैराग्यं तस्मिन्सति मिथ्याज्ञानस्य संसा रकारणस्य निवृत्तेस्तदेव संसारकारणप्रतिपक्षभूतमिति चेत्, किं पुनस्तत्परं तत्त्वज्ञानं । रागादिदोषरहितं तत्त्वज्ञानमिति चेत्, तर्हि सम्यक्चारित्रं तत्त्वज्ञानसहितं तत्त्वश्रद्धानाविना भावि संसारकारणप्रतिद्वन्द्वि सिद्धं, न पुनर्वैराग्यमात्र, एतेन तदुभयमात्रस्य संसारकारणप्रतिद्वन्द्वित्रपपास्तं तत्त्वश्रद्धानशून्यस्य तदुभयस्यापि संसारहेतुत्वदर्शनात् । सति श्रद्धाविशेषे तत्वज्ञानपूर्वकं वैराग्यं न पुनस्तच्चश्रद्धानशून्यं तस्य वैराग्या भासत्वादिति चेत, तर्हि सम्यग्दर्शनज्ञानचारित्रत्रयमेव संसारकारणस्य मिथ्यादर्शनमिथ्याज्ञानमिथ्याचारित्ररूपस्य त्रयामकस्य त्रयात्मनैव प्रतिद्वन्द्विना निवर्त्तयितुं शक्यत्वात् । ! मिथ्याज्ञानस्यैव विपरीतत्वाभिनिवेशविपरीताचरणकरणशक्तियुक्तस्यैकस्य संसारकारणत्वव्यवस्थायां तु तत्रज्ञानमेव तच्चश्रद्धानसम्यगाचरणशक्तियुक्तं तन्निवर्त्तकमिति युक्तमुत्पश्यामस्तत्त्वज्ञानस्य तत्त्वप्रकाशनशक्तिरूपत्वात्, तत्वश्रद्धानशक्तेः सम्यग्दर्शनत्वात्सम्यगाचरणशक्तेः सम्यक् चारित्रत्वात् त्रयात्मकत्वानतिक्रमात्, संसारकारणस्य मिथ्याज्ञानस्य विपरीततत्वप्रकाशनविपरीताभिनिवेश विपरीताचरणशक्त यात्मनस्तथात्मकस्वानतिक्रमवत् । ततः सम्यग्दर्शनज्ञानचारित्रात्मक एवं परमात्मत्वस्व Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 194 195 196 197 198