Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
१२४
युक्त्यनुशासन। हेतुत्वानभ्युपगमात् । न च द्रव्यमानं वस्तु पर्यायमानं वा तस्य वस्त्वेकदेशत्वात् द्रव्यपर्यायात्मनो जात्यंतरस्य वस्तुनः प्रमाणसिद्धत्वात् । न च द्रव्यस्य पर्यायस्य वा वस्तुत्वाभावादवस्तुस्वप्रसंगस्तस्य वस्त्वेकदेशत्वेन वस्तुत्वावस्तुत्वाभ्यामव्यवस्थानात् समुद्रैकदेशस्य समुद्रत्वासमुद्रत्वाभ्यामव्यवस्थानवत् । न च वस्तुत्वस्य सवस्य हेतुत्वे तदेकदेशेन द्रव्यसत्त्वेन पर्यायसत्त्वेन वा व्यभिचारोद्भावना युक्ता सर्वस्य हेतोर्व्यभिचारप्रसंगात् सकलजनप्रसिद्धस्य वह्नयादिसिद्धौ धूमादिसाधनस्यापि तदेकदेशेन पांडुत्वादिना व्यभिचारमुद्भावयन् कथमनेनापाक्रियेत ? धृमस्य हेतुत्वे तदेकदेशेन पांडुत्वादिना न व्यभिचारस्तन्मात्रस्याहेतुत्वादिति चेत् तर्हि सत्त्वस्य वस्तुस्वरूपस्य हेतुत्वेन तदेकदेशेन द्रव्यसत्त्वेन पर्यायसत्त्वेन वा कथमनैकांतिकत्वमुद्भावयेत् न चेदस्वस्थः । ननु च सत्त्वं वस्तुत्वविरुद्धं विपर्ययस्यैव साधनादिति न मन्तव्यम् । स्थितिमात्र इवोदयव्ययमात्रेऽपि तदसंभवात् । तथा हि-सचमिदमर्थक्रियया व्याप्तं तदभावे तद्विरोधात् खपुष्पवत् , सा च क्रमयोगपद्याभ्यां व्याप्ता तदभावे तदभावात्तद्वत् । ते च क्रमयोगपये प्रतिक्षणं स्थित्युदयव्ययात्मकत्वेन व्याप्ते तदस्थिव्येकान्तादुदयव्ययैकान्तादिव निवर्तमानं ततः क्रमयोगपये निवर्तयेत् , ते च निवर्तमाने स्वव्याप्यामर्थक्रियां निवर्तयतः, सा च निवर्गमाना स्वव्याप्यं सत्यं निव-यतीति, ततो निवर्तमान सत्त्वं तीरादर्शिशकुनिन्यायेन प्रतिक्षणं स्थित्यु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org