Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 156
________________ टोकासहितं । प्ययुतसिद्धिप्रसंगात् ततो न सामान्यस्य द्रव्यादिषुवृत्तिः संभवति । 'शिश्च कृत्स्नाशविकल्पतो न' वृत्तिरभ्युपगम्यमानापि सामान्यस्य तद्वस्तुनेति संबंधः, चशब्दस्यापि शब्दार्थत्वात् । तथा हि-कृत्स्नविकल्पे वृत्तिः स्यादेशविकल्पे वा? न तावत् कृत्स्नविकल्पे कृत्स्नस्य सामान्यस्य देशकालाकारभिन्नासु व्यक्तिषु सकृत्तिः साधयितुं शक्या सामान्यबहुत्वप्रसंगात तस्यैकस्यानंशस्य तदयोगात्, सामान्यं युगपद्भिनदेशकालव्यक्तिसंबंधि सर्वगतनित्यामूर्तत्वादाकाशवदित्यनुमानमपि न सम्यक् । साधनस्थेष्टविघातकारित्वात् । यथैव ह्ययं हेतुः सामान्यस्य युगपद्भिन्न देशकालव्यक्तिसंबंधित्वं साधयति तथा सांशत्वमपि व्योमवदेव, निरंशे सकृत्सर्वगतत्वविरोधादेकपर. माणुचत् । ननु निरंशमेवाकाशमकार्यद्रव्यत्वात्परमाणुक्त, या सांशं तत्कार्यद्रव्यं दृष्टं यथा पटादिकमकार्यद्रव्यं चाकावं तस्मान्निरंशमेव तद्वत्सामान्यमिति नेष्टविघातकारी हेतुः सर्वगतत्वादि स्वेष्टसाध्यसाधनत्वादिति चेत्, किमनेनाकार्यद्रव्यत्वेनारंभकाभावानिरंशत्वं साध्यते, स्वात्मभूतप्रदेशाभावा. द्वा ? प्रथमविकल्पे सिद्धसाध्यता स्यादाकाशस्यारंभकादय. वानभ्युपगमात् निरवयवत्वसिद्धः। द्वितीयविकल्पे तु साध्यशून्यो दृष्टांतः परमाणोरपि स्वात्मभूतेनैकेन प्रदेशेन सांशत्वव्यवस्थितेः । स्याद्वादिनां मते साधनशून्यश्च दृष्टांत: परमाणोरकार्यद्रव्यत्वासिद्धेः। स्यान्मतं तेऽकार्यद्रव्यं परमाणुरारंभकरहितत्वादाकाशद Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198