Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 173
________________ युक्त्यनुशासन। ते तस्य संयोगवदनेकस्थावाभावात् । विशेषवदनेकापेक्षयैव तदभिव्यक्तेः कृशत्वाधपेक्षया स्थूलत्वादिवत् । न च समानपरिणामोऽर्थानामपारमार्थिक एवापेक्षिकत्वादिति निश्चेतुं शक्यं संविदॆशयेन व्यभिचारात् । न हि वृद्धाक्षसंवेदनापेक्षया कुमारसंवेदनानां विशदतरत्वमापेक्षिकं न भवति तदविशेपप्रसंगात् । नाऽपि तदपारिमार्थिकं येन न व्यभिचार: स्यात्। यदातु परिणामपरिणामिनोरभेदनयप्राधान्यात्कथंचित्तादात्म्य प्रतिपाद्यते तदा द्रव्येषु द्रव्यत्वसमानपरिणामो द्रव्यस्वरूपमेव, तस्य च द्रव्यत्वपरिणामस्य सत्त्वादिसमानपरिणामान्तरं द्रव्यस्यैव प्रतीयते ततोऽर्थान्तरभूनस्य द्रन्यत्वपरिणामस्यासंभवादिति कुतोऽनवस्थाऽवकाशं लभते ? यदि वा येष्वेव द्रव्येषु द्रव्यत्वसमानपरिणामस्तेष्वेव सत्त्वादिपरिणामान्तराणि व्यवतिष्ठते, केवल तैरिवैकार्थसमवायबलात् द्रव्यत्वसमानपरिणामो व्यपदिश्यते संख्यादिगुणान्तरैरिव रूपादिगुणा इति सर्व निरवचं भेदाभेदोभयनयप्रधानभावाप्तिसमानपरिणामलक्षणसामान्यविषक्तभेदविधिव्यवच्छेदविधायित्वनिश्चयाद्वाक्यस्यान्यथा निर्विषयत्वप्रसंगात् । यथा चाभेदबुद्धेद्रव्यत्वादि. व्यक्तेरविशिष्टता स्यात् तथा व्यावृत्तिबुद्धश्च विशिष्टता ते भगवतः स्याद्वाददिवाकरस्येति संप्रतीयते, विसदृशपरिणामलक्षणो हि विशेषस्तद्विषक्तताविशिष्टता सा चेदमस्माद्यावृत्तमिति व्या १ प्रथमपुस्तके 'अनेकथीत्वाभावादिति पाठः । २ द्वितीयपुस्तके "भेदनयादानात् ।" इति पाठः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198