Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
टोकासहितं। श्रोत्रघ्राणरसनस्पर्शनानि गत्वा स्वविषयज्ञानं जनयन्ति वायेन्द्रियत्वाच्चक्षुर्वदन्यथा तेषामप्राप्यकारित्वप्रसंगात् । ततो न व्यभिचारः शब्दस्य नानादिक्क जनकरणग्रहणमाधनस्योक्तहेतोरिति नाबादनेकस्मादपि शब्दाच्छन्दान्तरोत्पत्तिः संभव तीति सर्वदिक्कपरापरशब्दप्रसर्पणं यावद्वेगमभ्युपगन्तव्य। तथाच संस्काराख्यगुणयोगित्वं नासिद्धं यतः मुक्तमिदं न स्यात् 'न गुणःशब्दः संस्कारवत्त्वाद्वाणादिवदिति।' पुद्गलद्रव्यपर्यायात्मकत्वे तु गंधादिवदित्यभ्यनुज्ञायमाने न किंचिद्धाधकमस्ति । ननु चन स्पर्शवत् द्रव्यगुणः शब्दोऽस्मदादिप्रत्यक्षते सत्यकारणगु. णपूर्वकत्वात्सुखादिवदिनि बाधकसद्भावान्न पुद्गलद्रव्यपर्यायत्वं शब्दस्य व्यवतिष्ठते सुखादेरपि तथाभावप्रसंगादिति कश्चित् । सोऽ पिस्वदर्शनपक्षपाती,परीक्ष्यप्राणस्याकारणगुणपूर्वकत्वस्यासिद्धस्वात्, कारणगुणपूर्वकः शब्दः पुद्गलस्कन्धपर्यायवाच्छायातपादिवत्,पुद्गलस्कंधपर्यायः शब्दोऽस्मदादिवाह्येन्द्रियप्रत्यक्षत्वाचद्वत । न घटत्वादिसामान्येन व्यभिचारस्तम्यापि सपानपरिणामलक्षणस्य पुद्गलद्रव्यपर्यायत्वमिद्धेः तदसिद्धमेवाकारणगुणपूर्वकत्वं शब्दस्य न साध्यसिद्धिनिबंधनं कारणगुणपूर्वकत्वेन साधनात् । हेतुविशेषणं चास्पदादिप्रत्यक्षत्वे सतीति व्यर्थमेव । परमाणुरूपादिव्यभिचारनिहत्यर्थं तदिति चेत् न, परमाणुरूपादीनामपि कारणगुणपूर्वकत्व सिद्धेः, परमाणूनां स्कंधमेदकार्यत्वात् तद्गुणपूर्वकत्वव्यवस्थितेः परमाणु रूपादीनामिति निर्णीतप्रायं । यदप्युक्तं न स्पर्शवद्र्व्यगुणः शब्दोऽस्मदादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198