Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
टोकासहितं । र्शनादीनां स्पर्शादिज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषलक्षणानां स्पर्शादिप्रकाशकत्वसिद्धेरिति पौद्गलिकः शब्दः पौगलिकद्रव्येन्द्रियाभिव्यंग्यत्वात्स्पर्शरसगन्धवर्णवत्, न पुनर्वायवीयो नभोगुणो वा सर्वगतामूर्तनित्यद्रव्यं वा प्रमाणाभावात् । प्रपंचतः प्रतिपादितं चैतत् तच्चालिंकारे प्रतिपत्तव्यं । तेन शब्दस्य द्रव्यं पुद्गलाख्यं वहिरंगस्य निश्चीयते, तथा च स्वद्रव्यतः शब्दात्मकं वाक्यमस्ति न परद्रव्यतः, सर्वात्मकत्वासंगात, परद्रव्यतश्च नास्ति वाक्यं न पुनः स्वद्रव्यतस्तस्याद्रव्यात्मकत्वप्रसंगादिति विधिप्रतिषेधात्मकं वाक्यं सिद्धम् । तथा स्वक्षेत्रकालाभ्यामस्ति वाक्यं न परक्षेत्रकालाभ्यां सर्वक्षेत्रकालात्मकत्वप्रसंगात, परक्षेत्रकालाभ्यामेव नास्ति न पुनः स्वक्षेत्रकालाभ्यां, तस्याक्षेत्रकालत्वापत्तेः । तदेवं सामान्यतो विधिनिषेधात्मकं वाक्यं सर्वान्तवत्कथ्यते सर्वान्तानां विधिनिधाभ्यां संग्रहात्, तदनात्मकस्य कस्यचिदन्तस्यासंभवात् । विशेषतस्तु भेदाभेदात्मकं द्रव्यपर्यायव्यक्तयात्मकत्वात्,तत्र द्रव्यं शब्दः क्रियावत्वाद्वाणादिवदिति शब्दयोग्यपुद्गलद्रव्यादेशाद् द्रव्यत्वसिद्धिः,तथा पर्यायः शब्दःप्रादुर्भावप्रध्वंसवत्वाद्धादिवदिति श्रवणज्ञानग्राह्यशब्दपर्यायार्थादेशादिति पर्यायवसिद्धिः। तथा विसदृशपरिणामविशेषात्मकं सदृशपरिणामसामान्यात्मकं व वाक्यं शब्दद्रव्याणां शब्दपर्यायाणां च नानात्वात्परस्परापेक्षया समानेतरपरिणामसिद्धेर्गन्धादिद्रव्यपर्यायवदिति सर्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198