Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 159
________________ युक्त्यनुशासन। यार्यादेशादाकाशस्यापि कार्यद्रव्यत्वसिद्धेः स्याद्वादिनां सर्वथा नित्यस्य कस्यचिदर्थस्याभावात् । खस्यानंशत्वाप्रसिद्धौ चानशं सामान्यं सर्वगतत्वादाकाशवदित्यत्र साध्यशन्यत्वादुदाहरणस्य नातःसामान्यस्य निरंशत्वसिद्धिः। सर्वगतत्वादित्यस्य हेतोरसिद्धलाज न हि सामान्यं सर्व सर्वगतं प्रमाणत: सिद्धं । रूसामहासामान्यं सर्व सर्वगतं सिद्धमेव सर्वत्र सत्मत्ययहेतुत्वादिति चेत् न, तस्यानंतव्यक्तिसमाश्रयस्यैकस्य प्राहकप्रमाणाभावात् । तदेवाहुः सूरयः-- ___'मानं च नानंतसमाश्रयस्य" इति । न हानंतसद्व्यक्तिग्रहणमन्तरेण तत्र सकृत् सन्नितिप्रत्ययस्यो. पत्तिरसर्वविदां संभवति यतः सर्वत्र सत्प्रत्ययहेतुत्वं सिद्धयेत् । तदसिद्धौ च न तदनुमानं प्रमाण सामान्यस्यानंतसमाश्रयस्यास्तीति न कृत्स्नविकल्पतो वृत्तिः सामान्यस्य सामान्यबहुत्वप्रसंगादिति स्थितं । एतेन व्यक्तिसर्वगतं सामान्यं कृत्स्नतः स्वाश्रयेषु प्रवर्तत इति वदन्नपि निरस्तः तस्याप्यनंतव्यक्तिसमाश्रयस्य मानाभावाविशेषात् । एतेन देशतः सामान्यस्य स्वाश्रयेषु वृत्तिरित्यपि विकल्पोषिता, देशतो. ऽनंतेषु स्वाश्रयेषु युगपत्सामान्यस्य वृत्तिरित्यत्र प्रमाणाभावात, ततोऽस्मिन्नपि पक्षे "मानं च नानंतसमाश्रयस्य" इति संबंधनीयं । सप्रदेशत्वप्रसंगाच सामान्यस्य न चैवमभ्युपगन्तु युक्तं स्वसिद्धान्तविरोधात् तस्य निरंशत्ववचनात् । ततो नैकं सामान्यममेयरूपं कुतश्चित्यमाणात्सिद्धं यतस्तदमेयमेव न स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198