Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
युफ्त्यनुशासनं । न्तवद्वाक्यं सिद्धं द्रव्यपर्यायसामान्यविशेषेषु सर्वान्तानामन्तर्भावात्सर्वस्यान्तस्य तत्स्वभावानतिक्रमात् ।
नन्वेवं द्रव्यपर्यायसामान्यविशेषात्मकस्य सर्वान्तवत्त्वे वाक्यस्य युगपत्तथा व्यवहारप्रसंग इति न शंकनीयं, तद्गुगामुख्यकल्पमिति वचनात् । द्रव्यस्य हि गुणत्वकल्पनायां पर्यायस्य मुख्यत्वकल्पनात्पर्यायो वाक्यमिति व्यवहारः प्रव
ते पर्यापस्य तु गुणकल्पनत्वे मुख्यकल्पं द्रव्यमिति वाक्ये दुव्यत्वव्यवहारः प्रतीयते तथा सामान्यस्य गुणकल्पत्वे विशेषस्य मुख्यकल्पत्वाद्विशेषो वाक्यमिति व्यवदियते, विशेषस्य च गुणकल्पत्वे सामान्यस्य मुख्यकल्पनात्सामान्यं वाक्यमिति व्यवहारात, सुनिर्णीतासंभाधकप्रमाणात्सर्वान्तवद्वाक्यं निश्वीयते, संकरव्यतिकरस्पतिरेकेण सर्वान्तानां तत्र व्यवस्थानाद्विरोधादीनां तत्र'नवकाशात्परस्परापेक्षत्वात् । न चैव परस्परनिरपेक्षमपि सर्वान्तवद् वाक्यं कल्पयितुं शक्यं सर्वान्तशून्यं च मिथोऽनपेक्ष"मिति वचनात् । न हि विधिनिरपेक्षो निषेधोस्ति कस्यचित्कथंचित्कचिद्विधीयमानस्यैवान्यत्रऽन्यदान्यथा निषेध्यमानत्वदर्शनात्,नाऽपि निषेधनिरपेक्षोवि धिरस्ति सर्वस्य सर्वात्मकत्वप्रसंगात् । तथा न द्रव्यपर्यायौ मिथोऽनपेक्षौ नत्तद्भावान्यथानुपपत्तेः, नापि सामान्यविशेषौ मिथोऽनपेक्षौ विद्यते तद्भावविरोधादिति सर्वान्तशुन्यं च मिथोनपेक्षं वाक्यं सिद्ध तद्विषयत्वात्परस्परनिरपेक्षाणां सर्वेषामन्तानामेकत्वादीनां निरूप्यमाणानां सर्वथाऽग्यसंभवात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198