Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
टीकासहितं ।
निशायितस्तैः परशुः परघ्नः स्वमूर्ध्नि निर्भेदभयानभिज्ञैः । वैतण्डिकैर्यैः कुसृतिः प्रणीता मुने ! भवच्छासनदृक्प्रमूढैः ॥ ५९ ॥ टीका - परपक्षदूषण प्रधानैवैतण्डिकैः संवेदनाद्वैतवादिभिर्यैः कुसृतिः कुत्सिता गतिः प्रतीतिः प्रणीता । मुने ! भगवन् ! भवतः शासनस्य स्याद्वादस्य दृशि प्रमूढैस्तैः स्वमूनि निभेदभयस्यानभिज्ञैर्निर्भेदभयमजानद्भिः परघ्नः परशुर्निशायित इति वाक्यार्थघटना । यथैव हि कैश्चित्परशुः परघाताय निशायितः स्वमूर्ध्नि भेदाय च प्रवर्त्तत इति तद्भयानभिज्ञास्ते, तथैव वैतण्डिकैः परपक्षनिराकरणायमानैः प्रणीयमानो न्यायः स्वपक्षमपि निराकरोतीति तेऽपि स्वपक्षघातभयानभिज्ञा एव । ते हि स्याद्वादन्यायनायकस्य गुरोः शासनदृक्ममूढाः किं जानंते दर्शन मोहोदयाक्रान्तान्तः करणत्वादिति विस्तरतस्तत्त्वार्यालङ्कारे प्रतिपत्तव्यं ।
ननु च यदुक्तं " न च स्वयं साधनरिक्तसिद्धिः" इति । तत्र, संविदद्वैतस्यापि सिद्धिर्मा भूत्सर्वाभावस्य शून्यतालक्षणस्य विचारबलादागतस्य परिहर्तुमशक्यत्वादिति केचिदाचक्षते तान्मत्याहु:
भवत्यभावोऽपि च वस्तुधर्मो भावान्तरं भाववदर्हतस्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198