Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
११३
टीकासहित। सन्मात्रे विधौ प्रवर्तमान प्रत्यतं तद्विरुद्धमसत्त्वं व्यवच्छिनतीति कथ्यते तदाऽपि निषेद्धृ प्रत्यक्षं कथं न स्यात् ? यदि पुनः प्रथमाक्षसन्निपातवेलायां निर्विकल्पं प्रत्यक्ष सन्मात्रमेव साक्षात्कुरुते, पश्चादनायविद्यावासनासामर्थ्यादसत् निवृत्तिविकल्पोत्पत्तेः प्रतिषेधव्यवहारोऽस्मदादेः प्रवर्तत इति मतं, तदा परमार्थतो नासत्त्वनित्तिरिति सदसदात्मकवस्तुविषयं प्रत्यक्ष प्रसज्येत । सन्मात्रस्य विधिरेवासत्त्वप्रतिषेध इति चेत्, (न) कथमेवं विधात्र प्रत्यक्ष निषेद्धृत्वस्यापि तत्रेष्टेः १ कयं च स्वयमेव न निषेद्धृ प्रत्यक्षमिति ब्रुवाणः प्रतिषेधं सर्वथा निराकुर्वीत न चेदस्वस्थः । अथाविद्यावलान निषेधृ प्रत्यक्षमिति निषेधव्यवहारः क्रियते परमार्थतस्तस्याप्यनभिधानात् किमेबमवाच्यं प्रत्यक्षमिष्यते ? तथेष्टौ सन्मात्रमप्यवाच्यं स्यात्, तत्वयुक्ततरं परमत्यायनायोगात् - सन्मानं हि तत्त्वं पर प्रत्याययेन्न संविन्मात्रेण पराप्रत्यक्षेण प्रत्याययितुमीशा परमार्थतः प्रत्याय्यमत्यायकभावाभावात् न चित्किचित् कथंचित् प्रत्याययति सर्वस्य स्वत एव सन्मात्रतत्त्वप्रतिपत्तेरिति चेत , न विप्रतिपत्यभावप्रसंगात् । यदि पुनः सन्मात्रे तत्त्वे स्वपरविभागाभावात् सर्वस्य भेदस्य तत्रैवानुपवेशान्न कश्चिकृतश्चित्कथंचित्कदाचिद्विप्रतिपद्यत इति चेत् , न स्यादेतदेवं यदि स्वपरविभागाभावः सिद्धयेत् , स हि न तावत्प्रत्यक्षता सिद्धस्तस्याभावविषयत्वप्रसंगात, नाऽप्यनुमानात्पक्षहेतुदृष्टांतअदाभावेऽनुमानानुपपत्तेः, कल्पितस्याप्यनुमानस्य विधिवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org