Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 179
________________ १६४ युक्त्यनुशासनं । तस्यैव शब्दस्योपलंभप्रसंगात् । शक्यं हि वक्तुं नानादेशस्थजनकरणानि प्राप्य शब्दमेकमुपलंभयन्ति सकृन्नानादिग्देशअर्तिभिः प्रतिपत्तृभिरुपलभ्यमानत्व द् रूपवदिति । गंधेन व्यभिचार इति चेत् न, तस्यापि पक्षीकृतत्वात् सोऽपि कस्तूरिकादिद्रव्यवर्त्ती नानादिग्देशवर्तिभिर्जनैरुपलभ्यमानः स्वस्वघ्राणकरणैः कथंचित्संप्राप्त एवापलंभ हेतुर्घटते गंधस्य देशान्तरस्थजनघःणेषु गमनासंभवाद् गुणस्य निष्क्रियत्वाद् गंधपरमाणूनां गमनेऽपि तत्समवेतगंधस्यानुपलभ्यमानत्वात्, अनेकद्रव्ये - ण समवायाद्रूप विशेषाच्च रूपोपलब्धरित्यनुवर्त्तमाने, एतेन गंधरसस्पर्शेषु ज्ञानं व्याख्यातमिति वैशेषिकैरभिधानात् । गन्धद्रव्यावयविनामुपलब्धिलक्षणप्राप्तानां देशान्तरेषु गमने तु मौलकस्तूरिका दिद्रव्यव्ययप्रसंगस्तस्यैव सर्वदिकं खंडावयविरूपा - वयवानां तदारंभकानां गमनात् । यदि पुननें कस्तूरिकादिद्रव्यस्य परमाणवो गंधसमवायिनो गच्छंति नाऽपि खंडावयविनस्तदारंभ कावयवास्ततो गन्धद्रव्यान्तराणामुत्पत्तेरिति मतं, तदाऽपि तदारंभकैः पार्थिवैः परमाणुभिर्भवितव्यं द्वयणुकादिभिर्वाऽनुपलं मेरेवोपलब्विलक्षणप्राप्तानां पार्थिवावयविनामुपलब्धिप्रसंगात् । न चानुपलब्धिलक्षणप्राप्तैः पार्थिवद्रव्यैरारब्धेषु द्रव्यांतरेषु समवेतस्य गधस्योपलब्धियुज्यते परमाणुसमवेतगंधवदिति न गन्धद्रव्यान्तरणि कस्तूरिका दिगन्धद्रव्यमारभन्ते यतः प्राप्तान्येव दूरस्थप्रतिपतृघ्राणर्ताद्वषयतामनुभवेयुर्घाणे न्द्रियविवृतिभिस्तु गत्वा गन्धस्य ग्रहणे प्रोक्तदोषानवकाश इति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198