Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
टोकासहित।
१३० युक्तं विशेषस्य तदात्मकत्वात्सामान्यविशेषयोरैक्यसिदिरिति वचने दूषणमुच्यते-ऐक्ये तयो सामान्यविशेषयोरन्यतरत्सामान्यरूपं विशेषरूपं वा निरात्म स्यात् । तत्र विशेषरूपस्य निरात्मत्वे तदविनाभाविनः सामान्यरूपस्यापि निरात्मत्वापते। सर्व निरात्मकत्वं प्रसज्येत, सामान्यरूपस्य च निरात्मत्वे विशेषरूपस्यापि तदविनाभाविनो निरात्मत्वानुषंगान तयोरैक्यमभ्युपगन्तव्यम् ।
ननु च सर्वगतं सामान्य विशेषैरश्लिष्टमेव वागास्पद, न पुनरात्मान्तरापोहसामान्यं तस्यावस्तुत्वादिति वदंतं प्रति बदन्ति
अमेयमश्लिष्टममेयमेव
भेदेऽपि, तवृत्त्यपवृत्तिभावात् । वृत्तिश्च कृत्स्नाशविकल्पतो न,
मानं च नानन्तसमाश्रयस्य ॥५५॥ टीका-नियतदेशकालाकारतया नमीयत इत्यमेयं, सर्वव्यापि नित्यं निराकारं सत्चादिसामान्यं तदश्लिष्टं विशेषैरमेयमेवाप्रमेयमेव प्रमाणतः प्रमातुमशक्तेः । प्रत्यक्षतस्तत्ममितिरप्रसिद्धा तन्त्र तदप्रतिभासनात् ब्रह्मवत् । नाप्यनुमानतस्तत्ममीयते तदविनाभाविलिंगाभावात् । सत्सदित्याद्यनुवृत्तिप्रत्ययो लिंगमिति चेत् न, असदसदित्यायनुवृत्तिप्रत्ययेन व्यभिचारात्, तस्यासस्वसामान्याभावेऽपि भागात पदार्थत्वसामान्याभा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198