Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 185
________________ युक्त्यनुशासनं। भिर्गन्धाभिव्यक्ति मेस्तूदकसेकेनेति । तथा रसनेंद्रियमाप्यमेव रूपादिषु सनिहितेषु रसस्यैवाभिव्यंजकत्वाल्लालावदित्यत्रापि हेतोलवणेन व्यभिचारात्तस्यानाप्यत्वेन रसाभिव्यं जकत्वसिद्धेः। तथा चक्षुस्तैजसमेव रूपादिषु सन्निहितेषु रूपस्यैवाभिव्यंजकत्वात्प्रदीपादिवदित्यत्रापि हेतोर्माणिक्योद्योतेन व्यभिचारात् । न च माणिक्यप्रभा तैजसी मूलोष्णद्रव्यवती प्रभा तेजस्तद्विपरीता भूरिति वचनात् । तथा वायव्यं स्पर्शनं रूपादिषु सन्निहितेषु स्पर्शस्यैवाभिव्य नकत्वात्तोयशीतस्पर्शव्यंज' कवाय्ववयविवदित्यत्राऽपि कर्पूरादिना सलिलशीतस्पर्शव्यंजकेन हेतोर्व्यभिचारात,पृथिव्यप्तेजःस्पर्शाभिव्यंजकत्वाचस्पर्शनेन्द्रियस्य पृथिव्यादिकार्यत्वप्रसंगाच्च वायुस्पर्शाभिव्यंजकत्वाद्वायुकार्यत्ववत एतेन चक्षुषस्तेजोरूपाभिव्यंजकत्वात्तेजःकार्यत्ववत्पृथिव्यप्समवायिरूपव्यंजकत्वात्पृथिव्य कार्यत्वप्रसंगः प्रतिपादितः। रसनस्य चाप्यरसाभिव्यंजकत्वादपकार्यत्ववत्पृथ्वीरसाभिव्यंजकत्वात्पृथिवीकार्यत्वप्रसंगश्च तथा नाभसं श्रोत्रं रूपादिषु सन्निहितेषु शब्दस्यैवाभिव्यंजकत्वात्, यत्पुनर्न नाभसं तन्न शब्दाभिव्यंजकं यथा घ्राणादि, शब्दस्याभिव्यंजकं च श्रोत्रं तस्मानाभसमित्यनुमानस्याप्यप्रयोजकत्वात् नभोगुणत्वासिद्धेः शब्दस्य समर्थनात् नभसि समवेतस्य ग्रहणासंभवात् । ततो नेन्द्रियाणि प्रतिनियतभूतप्रकृतीनि व्यवतिष्ठन्ते प्रमाणाभावात् प्रतिनियतेंद्रिययोग्यपुद्गलारब्धानि तु द्रव्येद्रियाणि प्रतिनियतभावेन्द्रियोपकरणत्वान्यथाऽनुपपत्तेर्भावेन्द्रियाणामेव स्प Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198