________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९६
तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेगुरोरनिष्टाचरणं गुरोरिष्टविवर्जनम् ॥ गुरोश्च सेवाकरणं ज्ञानानुत्पत्तिकारणम् ॥२८॥ ईश्वरे च गुरौ वेदे ज्ञाने चाभक्तिरच्युत ॥ तथा स्वगुरुसंताने ज्ञानानुत्पत्तिकारणम् ॥२९॥ स्वाचार्याय महाभक्त्या स्वदेहस्यानिवेदनम् ॥ निवेदनं तथाऽन्यस्मै ज्ञानानुत्पत्तिकारणम् ॥ ३०॥ आचार्यनिन्दाश्रवणं तद्वाधस्य च दर्शनम् ॥ विवादश्च तथा तेन ज्ञानानुत्पत्तिकारणम् ॥ ३१ ॥ आचार्यऽनीश्वरज्ञानमुपेक्षा च तथैव च ॥ तदुक्तविस्मृतिश्चापि ज्ञानानुत्पत्तिकारणम् ॥ ३२॥ अपशब्देति । "तस्माद्ब्राह्मणो न म्लेच्छितवै नापभाषितवै । म्लेच्छो हवा एष यदपशब्दः" इति हि श्रूयते ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ ३१ ॥ ३२॥
आचार्य बालबुद्धिश्च नरबुद्धिस्तथैव च ॥ अशिष्टबुद्धिर्भूनाथ ज्ञानानुत्पत्तिकारणम् ॥ ३३॥ अशक्तानामरक्षा च तथाऽशक्तापराधनम् ॥ अशक्तानां च निन्दा च ज्ञानानुत्पत्तिकारणम् ॥३४॥ अर्थहीनस्य निन्दा च तथा तस्यापराधनम् ॥ तस्य संकोचसंतुष्टिानानुत्पत्तिकारणम् ॥ ३५॥ रूपहीनस्य निन्दा च तथा तस्यापराधनम् ॥
वैरूप्ये तस्य संतुष्टिर्ज्ञानानुत्पत्तिकारणम् ॥३६॥ सूत उवाच
एवं महेश्वरादिष्णुर्ज्ञानानुत्पत्तिकारणम् ॥ श्रुत्वा प्रणामं कृतवान्भक्त्या परमया सह ॥ ३७॥
For Private And Personal Use Only