Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 320
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१४ तात्पर्यदीपिका समेता [ ३ मुक्तिखण्डे - इति स्वे महिनि" इति श्रुतेः स्वमहिमप्रतिष्ठितत्वादनन्यास्पद इति । तदेव तस्यासाधारणं रूपमित्यर्थः । प्रमाणमाह- स्वसंवेद्य इति । "यतो वाचो निव र्तन्ते । अप्राप्य मनसा सह" इति वाङ्मनसविषयातिवर्तिनि तस्मिन्भगवति स्वभावभूतः प्रकाश एव मुख्यं प्रमाणमित्यर्थः । ज्ञानातिरिक्तस्य जडत्वेन ज्ञानस्यैव स्वयंप्रकाशत्वात्तस्य च क्षणिकत्वात्तद्रपस्याऽऽत्मनोऽपि तथात्वमिति मं व्युदस्पति- पूर्णचैतन्य इति । वृत्त्यवच्छेदेन हि चैतन्यं क्षणिकमिव भवति । तेनवच्छिन्नं तु परिपूर्ण तन्नित्यमित्यर्थः । इत्थं दुरधिगमस्य प्रयनतोऽधिगमे फलमाह - आनन्द इति । इत्थमुक्तरूपस्य ज्ञातव्यस्य तत्त्वस्य ज्ञातुरात्मनः पृथक्त्वं वारयति सोऽहमिति । प्राक्पृथग्भूतस्यैव जीवस्य शिवतादात्म्यमुपायैर्लभ्यमिति केचन भ्रान्ताः । यदाहुः "आ मुक्तेर्भेद एव स्याज्जीवस्य च परस्य च । मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः " इति । तान्वारयति -सदेति । अत्रास्तीति सत्यत्वम् । स्वसंवेद्य इति ज्ञानत्वम् । पूर्ण इत्यनन्तत्वम् | आनन्द इति सुखत्वम् । सोऽहमिति मत्यक्त्वमिति रूपपञ्चकमुक्तम् । तेन सत्यज्ञानानन्तानन्दात्मत्वलक्षणेन रूपपञ्चकेनानृतजदान्तवत्त्वदुःखानात्मत्वभ्रमव्युदासेनाखण्डैकरसं स्वरूपमुपदिष्टमिति द्रष्टव्यम् ॥ ३४ ॥ तस्य काचित्सुराः शक्तिर्मायाख्याऽस्ति विमोहिनी ॥ विचारवेलायां साऽऽत्मा भवत्येव न चान्यथा ॥ ३५ ॥ इत्थमेकर से तस्मिन्वस्तुनि कथं देहाभासजगदवभासाविति तत्राऽऽह - तस्य काचिदिति । तदाश्रितमायाविलासमात्रमेतत्तथात्वं च विचारजनितज्ञाननिवर्त्यत्वादित्यर्थः || ३५ ॥ तदभेदेन सोऽप्यात्मा प्रलये जगतः स्थितः ॥ तस्मिन्प्रपञ्चसंस्कारः स्थितः सर्वः सुरोत्तमाः ॥ ३६ ॥ प्राकृतप्रतिसंचरे तर्हि मायाया अपि नष्टत्वात्कुतः पुनः प्रादुर्भाव इत्यत आह - तदभेदेनेति । ग्रस्तसमस्तप्रपञ्चा माया स्वप्रतिष्ठत्वादत्यन्त निर्विकल्पकेन चैतन्येन विविच्यमानाऽपि तादात्म्याध्यासात्मकाशेनैव प्रकाशमाना वर्तत एव । " अव्यक्तं पुरुषे ब्रह्मनिष्कले संप्रलीयते" इत्यपि विवेकावभासविरहमात्राभि १ क ख ग घ 'तन्यस्य क्ष । २ ग. ङ. तदवच्छिन्नं । ३ क. चारितायां साचात्मा । क. तस्मिन्कथं । ५ ग गति स्थि । ६ ग. 'तिष्ठिता । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366