Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 332
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२६ तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेउच्चै?षाय । उच्छ्रितशब्दायोच्छूितस्तोत्राय । पत्तीनाम् "एकेभैकरथा व्यश्वा पत्तिः" इत्यमरः । तासां पतये । सच्चानां सह सीदतां महाप्रमथगणानां पतये ॥ ६५ ॥ ६६॥ ककुभाय नमस्तुभ्यं नमस्तेऽस्तु निषङ्गिणे ॥ स्तनानां पतये तुभ्यं कृत्रिमाय नमो नमः ॥ ६७ ॥ ककुभाय । ककुभो दिशो वासत्वेनास्य सन्तीत्यर्शआदित्वादन् , तस्मै तस्कराणां नमस्तुभ्यं पतये पापहारिणे ॥ वञ्चते परिवञ्चते स्तायूनां पतये नमः ॥ ६८॥ वञ्चते गच्छते । वचिर्गत्यर्थः । परिवञ्चते परितः सर्वत्र गच्छते । स्ता. यूनाम् । छद्मचारिणो ये वस्त्रादीनपहरन्ति कपटसाधुवेषास्ते तायवः "उत. स्मैनं वस्त्रमथिं न तायुम्" इत्यादौ दर्शनात् । तत्र वा सकारलोपः । अत्र वा सकारोपजनस्तेषां पतये ॥ ६८ ॥ नमो निचेरवे तुभ्यमरण्यपतये नमः ॥ उष्णीषिणे नमस्तुभ्यं नमस्ते परमात्मने ॥ ६९ ॥ विस्तृताय नमस्तुभ्यमासीनाय नमो नमः ॥ शयानाय नमस्तुभ्यं सुषुप्ताय नमो नमः ॥ ७० ॥ प्रबुद्धाय नमस्तुभ्यं स्थिराय परमात्मने ॥ सभारूपाय ते नित्यं सभायाः पतये नमः ॥ ७१ ॥ नमः शिवाय साम्बाय ब्रह्मणे सर्वसाक्षिणे ॥ ७२ ॥ सूत उवाच एवं सुरासुरैरन्यैः शंकरोऽभिष्टुतः पुनः ॥ कृत्ला प्रसादं सर्वेषां तत्रैवान्तर्हितोऽभवत् ॥ ७३ ॥ अस्य तीर्थस्य माहात्म्यं स्थानस्यास्य सभापतेः ॥ यो वेत्ति श्रद्धया मुक्ति सिद्धा तस्य महात्मनः ॥७४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366