Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१८
[ ३ मुक्तिखण्डे
तात्पर्यदीपिकासमेता(अथ नवमोऽध्यायः)
मुनय ऊचुः
भवता सर्वमाख्यातं संक्षेपादिस्तरादपि ॥ भवत्प्रसादादस्माभिर्विज्ञातं च विचक्षण ॥१॥ तथाऽपि देवदेवस्य शिवस्य परमात्मनः ॥ विश्वाधिकस्य रुद्रस्य ब्रह्मणः सर्वसाक्षिणः ॥२॥ नर्तनं द्रष्टुमिच्छामः शंकरस्याम्बिकापतेः ॥
अतः कारुण्यतोऽस्माकं तदुपायं वदाइतम् ॥ ३॥ उक्तमुक्त्युपायजातमध्ये भगवन्नृत्यदर्शनस्यैव सुकरत्वं मुलभत्वं महाफलत्वं च निश्चिन्वतां मुनीनां तदुपायगोचरं प्रश्नमवतारयति-भवता सर्वमिति ॥१॥२॥३॥ सूत उवाच
शृणुध्वं तत्प्रवक्ष्यामि श्रद्धया वेदवित्तमाः॥ पुरा नन्दीश्वरं धीमानपच्छच्छौनको मुनिः ॥४॥ सोऽपि कारुण्यतः श्रीमानन्दी वेदविदां वरः ॥
शौनकायाब्रवीत्रला महादेवं घृणानिधिम् ॥५॥ नन्दिकेश्वर उवाच
कैलासे संध्ययोः शंभुः करोयानन्दनर्तनम् ॥
तच्छिवा केवलं पश्यत्यन्यस्तत्र न पश्यति ॥६॥ पृष्टमुपायं ब्रुवाणः सूतस्तत्र प्रत्ययदाक्य पुरावृत्तमुदाहरति-पुरेत्यादि ॥४॥५॥६॥
पुण्डरीकपुरे रुद्रः शौनकाऽऽनन्दनर्तनम् ॥ श्रीमद्दभ्रसभामध्ये करोति भगवान्सदा ॥ ७ ॥
१ क. ख. 'क्तयुक्त्यु । २ ख. विचिन्वतां । ग. विनिश्चिन्वतां ।
For Private And Personal Use Only

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366