Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 331
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्याय: ९ ] सूतसंहिता । नमोऽस्तु नीलग्रीवाय सहस्राक्षाय ते नमः ॥ सहस्रपाणये तुभ्यं नमो मीदुष्टमाय ते ।। ५९ ।। कपर्दिने नमस्तुभ्यं कालरूपाय ते नमः ॥ नमस्ते चाऽऽत्तशस्त्राय नमस्ते शूलपाणये ॥ ६० ॥ Acharya Shri Kailassagarsuri Gyanmandir मीष्टमा श्रेष्ठतम || ५९ ॥ ६० ॥ हिरण्यपाणये तुभ्यं हिरण्यपतये नमः ॥ नमस्ते वृक्षरूपाय हरिकेशाय ते नमः ॥ ६१ ॥ हरिकेशाय हरितवर्णकेशाय ॥ ६१ ॥ ३२५ पशूनां पतये तुभ्यं पथीनां पतये नमः ॥ पुष्टानां पतये तुभ्यं क्षेत्राणां पतये नमः ॥ ६२ ॥ पुष्टानामिति । भावे निष्ठा । पुष्टानां वाक्पुष्टिज्ञानपुष्ट्यादीनां दशपुष्टीनां पतये ॥ ६२ ॥ आतताविस्वरूपाय वनानां पतये नमः ॥ रोहिताय स्थपतये वृक्षाणां पतये नमः ॥ ६३ ॥ आततायिस्वरूपायाऽऽततेनाधिज्येन धनुषा जगदवतीत्याततावी । अवतेणिनिः । तस्मै । तिष्ठति पातीति स्थपतिस्तस्मै ॥ ६३ ॥ 1 नमस्ते मन्त्रिणे साक्षात्कक्षाणां पतये नमः ॥ ओषधीनां च पतये नमः साक्षात्परात्मने ॥ ६४ ॥ कक्षाणां कक्षा गहना देशगहना भाषागहना धर्माधर्मादि गहनास्तेषां पतये । यद्वा गिरिनदीगह्वरगुल्मादयश्च कक्षास्तेषां स्वामिने तत्र स्थितानां वा रक्षकाय ।। ६४ । For Private And Personal Use Only उच्चैर्घोषाय देवाय पत्तीनां पतये नमः ॥ सत्त्वानां पतये तुभ्यं धनानां पतये नमः ॥ ६५ ॥ सहमानाय शान्ताय शंकराय नमो नमः ॥ आधीनां पतये तुभ्यं व्याधीनां पतये नमः ||६६ ॥

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366