________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः६] सूतसंहिता।
२९५ वृष्टिवातातपक्लेशैहप्राप्तस्य वर्जनम् ॥ तद्रक्षाकरणं चापि ज्ञानानुत्पत्तिकारणम् ॥ १८॥ वापीकूपतंडागादिबाधस्तजलदूषणम् ॥ तथा तजलचौर्य च ज्ञानानुत्पत्तिकारणम् ॥ १९ ॥ व्याघचोरादिभीतस्य रक्षणाकरणं तथा ॥ साधूनां भयकारित्वं ज्ञानानुत्पत्तिकारणम् ॥२०॥ वश्याकर्षणविद्वेषस्तम्भोच्चाटनकारिता ॥
अभिचारक्रिया चापि ज्ञानानुत्पत्तिकारणम् ॥२१॥ अश्रौतानामिति । श्रौतं हि पाशुपतं ज्ञानोत्पत्तिकारणत्वेन महता प्रबन्धेन अपश्चितम् ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥ १६॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ ॥ २१ ॥
अक्षयूतविनोदश्च नृत्यगीतेषु मोहनम् ॥ अपशब्दप्रयोगश्च ज्ञानानुत्पत्तिकारणम् ॥ २२ ॥ वर्णाश्रमविशिष्टानामवमानस्तथैव च ॥ तेषां शुश्रूषणाभावो ज्ञानानुत्पत्तिकारणम् ॥ २३ ॥ पुत्रमित्रगृहक्षेत्रभ्रातृबन्धुजने रतिः ॥ अरतिगुरुपादे च ज्ञानानुत्पत्तिकारणम् ॥ २४ ॥ अभक्ष्यभक्षणश्रद्धा तथाऽभक्ष्यस्य भक्षणम् ॥ अभक्ष्यभक्षणस्पृष्टिर्ज्ञानानुत्पत्तिकारणम् ॥ २५ ॥ परस्त्रीदर्शनश्रद्धा परस्त्रीगमने रतिः ॥ परस्त्रीगमनं चापि ज्ञानानुत्पत्तिकारणम्॥ २६॥ खस्त्रीदर्शनविद्वेषः स्वस्त्रीदर्शनवर्जनम् ॥ स्वस्त्रीबाधश्व कल्याण ज्ञानानुत्पत्तिकारणम् ॥ २७॥ १ ख. ग. 'तटाकादि । २ ग. दिभिस्तस्य । ३ घ. मोदनम् ।
For Private And Personal Use Only