Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 321
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१५ अध्यायः ८] सूतसंहिता। प्रायमेवेति मपञ्चितं प्रथमखण्डे पञ्चमाध्याये । तदवस्थाया मायाया यथापूर्व जगदुत्पत्तौ बीजमाह-तस्मिन्निति । परिपक्वस्य कर्मणो भोगप्रदानेन क्षीणत्वादितरस्य चापरिपाकाद्रोग्यः प्रपञ्चः सकलोऽपि मायाशबलिते तस्मिन्नात्मनि लीनः संस्काररूपेण वर्तमानः पुनः सर्गस्य बीजम् ॥ ३६ ॥ स्वभावादेव संक्षुब्धा वासना कर्मणा भवेत् ॥ ततस्तत्क्षोभयुक्तात्माऽविक्रियोऽपि स्वभावतः ॥३७॥ संस्कारापरपंर्यायवासनावशात्प्राप्तपरिपाकेन कर्मणा क्षुब्धा कार्याभिमुख्यं प्रापिता भवतीत्यर्थः । परिपक्वस्य हि कर्मणः स्वभाव एव स यद्वासनाक्षोभकत्वम् । कूटस्थनित्यतया स्वतो निर्विकारेणापि विकृतवासनासंयोगाद्विकारमिव प्राप्तेनाऽऽत्मना क्षोभं कार्याभिमुख्यं नीयत इत्याह-ततस्तत्लोभेति ॥ ३७॥ क्षोभकः कालतत्त्वस्य पुनः कालेन संयुतः ॥ ईक्षणं पूर्ववत्कृत्वा पुनर्ब्रह्मादिकं जगत् ॥ ३८ ॥ "कालो मायात्मसंबन्धः" इत्युक्तलक्षणः कालः । ईक्षणमिति । कालकर्मयुक्तश्चाऽऽत्मा “स ईक्षत लोकान्नु सृजा इति" इत्यादिश्रुत्युक्तपरिपाट्या पाक्तनसर्गपरंपरासदृशमेव सगं करोति । "सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो सुवः" इति श्रुतेरित्यर्थः ॥ ३८ ॥ सृष्ट्वाऽनुप्राप्य तन्मोहात्सुराः संसारमण्डले ॥ ज्ञेयज्ञात्रादिकेऽशुद्धे स्वप्रतुल्ये महत्तरे ॥ ३९ ॥ अनाद्यन्तेऽवशो भूत्वा सुराः कर्मानुरूपतः ॥ विचित्रां योनिमासाद्य सुखदुःखादिपीडितः ॥ ४०॥ सृष्ट्वाऽनुपाप्येत्यादि । मायातीतः परमात्मा प्राणिकर्मप्रेरणाजनितलीलासर्गप्रवृत्तो विशुद्धसत्त्वप्रधानमायोपाधिकः स्रष्टा भूत्वा राजसतामसमायामयं भोक्तभोग्यलक्षणं प्रपञ्च सृष्ट्वा तत्तादात्म्याभिमानं तदनुप्रवेशं च विधाय सुखदुःखमयं संसारमनुभवति | "इदं सर्वमसृजत तत्सृष्ट्वा तदेवानुप्राविशत्" इत्यादिश्रतरित्यर्थः ॥ ३९ ॥ ४०॥ .. १ क. ग. घ. 'स्थामा । २ ५. 'पर्यायप्राप्त । क ख. ग. पर्याया वा । ३ क. घ, 'त इमालोका । ४ ग. 'दं च स। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366