Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 311
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ७] सूतसंहिता। ३०५ अम्बिकायाः प्रियोऽत्यर्थ मम ज्ञानी सदा हरे॥ बहिष्ठाः सर्वदा सर्वे ज्ञानी वात्मैव मे सदा ॥६७॥ आत्मनिष्ठं च मां विष्णो विभिन्न प्रवदन्ति ये॥ ते मूढा एव मनुजा नात्र कार्या विचारणा ॥ ६८॥ ॥ ६२ ॥६३ ॥ ६४ ।। ६५ ॥ ६६ ॥ ६७ ॥ ६८॥ तस्मादात्मविदः सर्वैः पूजनीया विशेषतः ॥ वेदवेदान्तवाक्यानां मयाऽर्थः संग्रहेण ते ॥ कथितः सारभूतोऽयं शेषोऽन्यो ग्रन्थविस्तरः॥ ६९ ॥ शास्त्राण्यधीत्य मेधावी गुरोरभ्यस्य तान्यपि ॥ पलालमिव धान्यार्थी यजेद्ग्रन्थमशेषतः॥ ७० ॥ तस्मादात्मविद इति । श्रूयते हि-"यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं वर्चपेद्धतिकामः" इति ॥ ६९ ॥ ७० ॥ यावानर्थ उदपाने सर्वतःसंप्लुतोदके ॥ तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ७१॥ पावानर्थ इति । सर्वस्मिन्भूमण्डले जलप्लते सति पिपासोरुदपाने कूपे यथा न किंचित्प्रयोजनमेवं तत्त्वविदां वेदैस्तत्पतिपादितकर्मभिर्वा न किंचित्प्रयोजनमित्यर्थः ॥ ७१ ॥ दुर्लभं प्राप्य मानुष्यं तत्रापि ब्रह्मविग्रहम् ॥ ब्राह्मण्यं च तथा विष्णो वेदान्तश्रवणादिना ॥७२॥ अतिवर्णाश्रमं रूपं सच्चिदानन्दमंदयम् ॥ यो न जानाति सोऽविद्वान्कदा मुक्तो भविष्यति ॥७३॥ विद्यैव श्रेयसी चेत्किमिति वेदैः कर्माणि प्रपञ्चेन प्रतिपादितानि । तेषामप्यर्थवत्त्वे वा कथं वैफल्यवचनमित्याशङ्कय "तिलतैलमेव मिष्टं येन न दृष्टं घृतं क्वापि" इति न्यायेन विद्यानधिकृतानां सांसारिकमुखाय तात्कालिकदुः. खपरिहाराय च कर्माणि कथितानि । अधिकृतस्य तु परमपुरुषार्थसाधनतया विद्यैव श्रेयसीत्याह-दुर्लभं प्राप्येति । १ ङ. वरिष्ठाः । २ न. 'मव्ययम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366