Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 318
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३१२ तात्पर्यदीपिका समेता [ ३ मुक्तिखण्डे - नित्यानन्दनिरञ्जनामृतपरज्ञानानुभूत्या सदा नृत्यन्तं परमेश्वरं पशुपतिं भक्त्यैकलभ्यं परम् ॥ २७ ॥ लौकिकेन वचसा मुनीश्वरा वैदिकेन वचसा च तुष्टुवुः ॥ देवदेवमखिलार्तिहारिणं ब्रह्मवज्रधरपूर्वकाः सुराः ॥ २८ ॥ मुनीश्वरा महेश्वरः समस्तदेवनायकः सुरेश्वरान्निरीक्षणान्निरस्तपापपञ्जरान् अनुग्रहेण शंकरः प्रगृह्य पार्वतीपतिः समस्तवेदशास्त्रसारभूतमुत्तमोत्तमम् ॥ २९ ॥ ॥ नित्यानन्देति । आत्मनः स्वभावभूतोऽपि ह्यानन्दो दशाभेदेन द्विविधः । अनित्यो नित्यश्च । मायया नित्यमावृतः सञ्शुभकर्मोपस्थापितविषयेन्द्रियसंप्रयोगजनितवृत्त्यभिव्यक्तलक्षणः स्फुरन्व्यञ्जकवृत्तिविनाशे पुनस्तिरोभवन्ननित्य इत्यर्थः । परशिवस्वभावभूतस्तु निरतिशयानन्दः कदाचिदप्यनावृत्तत्वा नित्यः । इत्थं ज्ञानमपि स्वभावभूतं मायया तिरोहितं सद्वत्यभिव्यक्तमनित्यम् । शिवस्वरूपभूतं तु ज्ञानं मायापरनाम्नाञ्जनेनानावृत्तत्वान्न कदाचिदपि म्रियत इत्यमृतम् | क्षणिकेभ्यो वृत्तिज्ञानेभ्यो निरतिशयोत्कर्षात्तत्परं ज्ञानं नित्यमखण्डैकरसं वस्त्वत्यन्तानुकूल्येन परप्रेमास्पदत्वादानन्द इति स्वस्वेतरव्यवहारकारणप्रकाशतया ज्ञानमिति च व्यपदिश्यते । तस्य च स्वप्रकाशस्य स्वभावभूतो यः प्रकाशः स एवानुभूतिरनुभवो नृत्यस्य कारणमित्यर्थः । नृत्यस्य च परानन्दाभिनयात्मकत्वं वर्णितं प्रथमखण्डे द्वितीयाध्याये ॥ २७ ॥ २८ ॥ २९ ॥ प्रदर्शयन्नटेश्वरः समस्तदेवसंनिधौ स्वनर्तनं विमुक्तिदं महत्तरं महेश्वरः ॥ समस्तलोकरक्षकं महात्मनां हृदि स्थितं निरीक्षणाहमीश्वरोऽकरोत्सभापतिः शिवः ॥३०॥ पशुपतिताण्डवदर्शनात्सुराः परममुदा विवशा विचेष्टिताः ॥ ङ. 'पि नित्यान । २ घ नाशो यतस्ति । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366