Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 327
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ९] सूतसंहिता। ३२१ तस्य शिष्यस्तु विप्रेन्द्रास्तद्दाक्यादाश्वलायनः॥ पूर्वोक्तेनैव मार्गेण भगवन्तं त्रियम्बकम् ॥ २६ ॥ श्रीमद्दभ्रसभामध्ये नृत्यन्तं देवनायकम् ॥ दृष्ट्वा प्रणम्य मेधावी प्रसादेन शिवस्य तु ॥ २७ ॥ अभवत्सूत्रकृविप्राः शाकल्यस्य महामुनिः॥ एवं पूर्वोक्तमार्गेण श्रद्धया बहवो जनाः ॥२८॥ दृष्ट्वा भ्रसभामध्ये नर्तनं शंकरस्य तु ॥ कृतार्था वेदविच्छ्रेष्ठा अभवन्नचिरेण तु ॥२९॥ तस्माद्भवन्तोऽपि पुरोक्तवर्मना शिवस्य नृत्तं शिवया निरीक्षितम् ॥ दृष्ट्वा महेशस्य हरस्य शूलिनः __ प्रसादमात्रेण विमुक्तिभागिनः॥३०॥ भवत परमतत्त्वप्राप्त्युपायो मयोक्तः सकलगुरुवराणामुत्तमो व्याससंज्ञः ॥ अवददतिरहस्यं मे पुरा श्रद्धयैव प्रवरगुणनिधानः पद्मनाभांशभूतः ॥ ३१ ॥ एवमुक्त्वा मुनीन्द्रेभ्यः सूतः पौराणिकोत्तमः ॥ कृष्णद्वैपायनं व्यासं सस्मार श्रद्धया सह ॥ ३२॥ न केवलं स्वयमकार्षीत् । किंतु स्वशिष्यमाश्वलायनमपि तथाकरणे नियुक्तवान् । स आश्वलायनोऽपि तथा कृतवानित्याह-तद्वाक्यादाश्वलायन इत्यादि ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥ एतस्मिन्नन्तरे श्रीमान्महाकारुणिकोत्तमः ॥ कृष्णाजिनी सोत्तरीय आषाढेन विराजितः ॥ ३३॥ भस्मोद्धूलितसर्वाङ्गः शुद्धतिर्यवित्रपुण्ड्धृत् ॥ रुद्राक्षमालाभरणो जपन्पञ्चाक्षरं मुदा ॥ ३४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366