Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ९] सूतसंहिता।
३१९ कैलासे नित्यं सतोऽपि नर्तनस्य दर्शनं दुर्लभमिति यत्र स्थाने मुलभं तदाह-पुण्डरीकपुर इति ॥ ७॥
तत्रापि शौनकाम्बाऽपि स्कन्दो विघ्नेश्वरोऽपि च ॥
क्षेत्रपालो मया साध पश्यत्यन्यो न पश्यति ॥ ८॥ अम्बाऽपि गौर्यपि ॥ ८॥
येषां प्रसादो देवस्य शौनकास्ति महत्तरः॥ ते प्रपश्यन्ति तत्रैव महानर्तनमैश्वरम् ॥ ९ ॥ तस्मात्प्रसादसिद्धयर्थ शौनक श्रद्धया सह ॥ पुण्डरीकपुरं गत्वा खो चापस्थिते सति ॥ १०॥ आर्द्रायां प्रातरेव त्वं शुचिर्भूत्वा समाहितः ॥ शिवगङ्गाभिधे तीर्थे स्नानं कृत्वा महत्तरे ॥ ११ ॥ यथाशक्ति धनं धान्यं दत्त्वाऽन्यदाऽनसूयवे ॥ उपोष्य दिनमेकं वा श्रीमूलस्थाननायकम् ॥ १२ ॥ भक्त्या प्रदक्षिणीकृत्य प्रणम्य भुवि दण्डवत् ॥ श्रीमत्पञ्चाक्षरं मन्त्रं जपित्वाऽयुतमादरात् ॥ १३॥ दिने दिने मुनेऽब्दान्ते स्नानं कृत्वा यथा पुरा ॥ प्रणम्य देवमीशानं श्रीमूलस्थाननायकम् ॥ १४ ॥ पुनर्नित्यं महाभक्त्या श्रीमद्दभ्रसभापतिम् ॥ प्रदक्षिणत्रयं कृत्वा प्रणम्य भुवि दण्डवत् ॥ १५॥ श्रीमत्पञ्चाक्षरं मन्त्रं जपित्वा पूर्ववत्पुनः ॥ वत्सरान्ते यथाशक्ति धनं दत्त्वा सभापतेः ॥ १६ ॥ पूजां पञ्चाक्षरेणैव कुरु श्रद्धापुरःसरम् ॥ पुनः प्रसादस्ते तस्य भविष्यत्येव शौनक ॥ १७॥
१ ग. 'न्यद्राह्मणाय च ॥ उ । २ ङ. 'दतस्तस्य ।
For Private And Personal Use Only

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366