________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
मक्षिकादीनामुपलक्षणमिति ५, तथा चेलानां वस्त्राणां बहुधननवीनावदातसुप्रमाणानां सर्वेषां वाऽभावः अचेलम् अचेलत्वमित्यर्थः ६. अरति : मानसो विकारः ७. स्त्री प्रतीता ८, चर्या ग्रामादिष्वनियतविहारिता ९. नैषेधिकी सोपद्रवेतरा च स्वाध्यायभूमिः १०, शय्या मनोज्ञाऽमनोज्ञा वसतिः संस्तारको वा ११, आक्रोशो दुर्वचनम् १२, 5 वधो यष्ट्यादिताडनम् १३, याच्या भिक्षणं तथाविधे प्रयोजने मार्गणं वा १४. अलाभ-रोगौ प्रतीतौ १५ - १६, तृणस्पर्शः संस्तारकाभावे तृणेषु शयानस्य १७, जल्लः शरीरवस्त्रादिमलः १८, सत्कारपुरस्कारौ वस्त्रादिपूजना-ऽभ्युत्थानादिसंपादने, सत्कारेण वा पुरस्करणं सन्माननं सत्कारपुरस्कार: १९, ज्ञानं सामान्येन मत्यादि. क्वचिदज्ञानमिति श्रूयते २० दर्शनं सम्यग्दर्शनम्, सहनं चास्य क्रियादिवादिनां 10 विचित्रमतश्रवणेऽपि निश्चलचित्ततया धारणम् २१. प्रज्ञा स्वयं विमर्शपूर्वको वस्तुपरिच्छेदो मतिज्ञानविशेषभूत इति २२ ।
2
८२
दृष्टिवादो द्वादशमङ्गम्, स च पञ्चधा परिकर्म १ सूत्र २ पूर्वगत ३ प्रथमानुयोग ४ चूलिका ५ भेदात्, तत्र दृष्टिवादस्य द्वितीये प्रस्थाने द्वाविंशतिः सूत्राणि, तंत्र सर्वद्रव्य-पर्यायनयाद्यर्थसूचनात् सूत्राणि, छिन्नच्छेयणइयाई ति इह यो नयः सूत्रं छिन्नं 15 छेदेनेच्छति स छिन्नच्छेदनयः, यथा धम्मो मंगलमुक्कडं [दशवै० १।१] इत्यादिश्लोकः सूत्रार्थतः छेदेन स्थितो न द्वितीयादिश्लोकानपेक्षते, इत्येवं यानि सूत्राणि छिन्नच्छेदनयवन्ति तानि छिन्नच्छेदनयिकानि तानि च स्वसमया जिनमताश्रिता या सूत्राणां परिपाटिः पद्धतिस्तस्यां स्वसमयसूत्रपरिपाट्यां भवन्ति तया वा भवन्तीति, तथा अच्छिन्नच्छेयणयियाइं ति इह यो नयः सूत्रमच्छिन्नं छेदेनेच्छति सोऽच्छिन्नच्छेदनयो 20 यथा धम्मो मंगलमुक्कङ्कं [ दशवै० १।१ ] इत्यादिश्लोकोऽर्थतो द्वितीयादिश्लोकमपेक्षमाण इत्येवं यान्यच्छिन्नच्छेदनयवन्ति तान्यच्छिन्नच्छेदनयिकानि तानि चाऽऽजीविकसूत्रपरिपाट्यां गोशालकमतप्रतिबद्धसूत्रपद्धत्यां तया वा भवन्ति. भवन्तीति भावना, तथा
-
अक्षररचनाविभागस्थितान्यप्यर्थतोऽन्योन्यमपेक्षमाणानि
१. यल्लं ज२ ।। २. सत्कारे वा खं० ॥। ३. तत्र सर्वत्र सर्व जे२ । ४. धम्मा मंगलमुक्किनं. अहिंसा संजमो तव । देवा वितं नमसंति, जस्स धम्मं सया मणो || १ | १ || व्या० धर्मः मङ्गलम् उत्कृष्टम् अहिंसा संयमः तपः देवाः अपि तं नमस्यन्ति यस्य धर्मे सदा मनः ॥” इति दशवैकालिकसूत्रे हरिभद्रसूरिविरचितायां वृत्तो ॥