Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 300
________________ [सू० १५४] आयुर्बन्धादिवर्णनम् । २८१ परिणामो य: तथाऽऽत्मप्रदेशेषु सम्बन्धनं स प्रदेशनाम, जाति-गत्यवगाहनाकर्मणां वा यत् प्रदेशरूपं नामकर्म तत् प्रदेशनाम, तेन सह निधत्तमायुः प्रदेशनामनिधत्तायुरिति। तथा अणुभागनामनिधत्ताउए त्ति, अनुभाग: आयुष्कर्मद्रव्याणां तीव्रादिभेदो रस: स एव तस्य वा नाम: परिणामोऽनुभागनाम:, अथवा गत्यादीनां नामकर्मणामनुभागबन्धरूपो भेदोऽनुभागनाम, तेन सह निधत्तमायुरनुभागनामनिधत्तायुरिति । 5 __तथा ओगाहणानामनिधत्ताउए त्ति, अवगाहते जीवो यस्यां साऽवगाहना शरीरमौदारिकादि पञ्चविधम्, तत्कारणं कर्माप्यवगाहना, तद्रूपं नामकर्माऽवगाहनानाम, तेन सह निधत्तमायुरवगाहनानामनिधत्तायुरिति । नेरइयाणमित्यादि स्पष्टम् । अनन्तरमायुर्बन्ध उक्तोऽधुना बद्धायुषां नारकादिगतिषूपपातो भवतीति तद्विरहकालप्ररूपणायाह- निरयगई णमित्यादि कण्ठ्यम्, नवरं यद्यपि रत्नप्रभादिषु 10 चतुर्विंशतिर्मुहूर्त्तादिविरहकालः, यथोक्तम् चउवीसई मुहुत्ता सत्त अहोरत्त तह य पण्णरसा । मासो य दो य चउरो छम्मासा विरहकालो उ ॥ [बृहत्सं० २८१] त्ति । तथापि सामान्यगत्यपेक्षया द्वादश मुहूर्ता उक्ताः, तथा एवंकरणाद् यत्तिर्यङ्मनुष्यगत्योः सामान्येन द्वादश मुहर्ता उक्ताः तद् गर्भव्युत्क्रान्तिकापेक्षया, देवगतौ तु 15 सामान्यत एव। सिद्धिवज्जा उव्वदृण त्ति नारकादिगतिषु द्वादशमुहूर्तो विरहकाल १. 'साई खं० जे१ । “चउवीसयं मुहुत्ता, सत्त अहोरत्त तह य पन्नरस । मासो अ दो अ चउरो छम्मासा विरहकालो उ ।।२८१।। उक्कोसो रयणाइसु, सव्वासु जहन्नओ भवे समओ। एमेव य उव्वट्टण, संखा पुण सुरवरूतुल्ला ||२८२।। व्या०- इह नरकेषु नारकाः सततमेव प्राय उत्पद्यन्ते । केवल कदाचिदन्तरं भवति । तच्चान्तर जघन्यतः सर्वासु समस्तासु पृथिवीषु प्रत्येकं भवत्येकः समय: । उत्कर्षतो रत्नप्रभायां पृथिव्यां चतुर्विंशतिमूहुर्ता अन्तरम् । शर्कराप्रभायां सप्ताहोरात्राः । वालुकाप्रभायां पञ्चदश । पङ्कप्रभायां मासः । धूमप्रभायां द्वौ मासौ । तमःप्रभायां चत्वारो मासाः । तमस्तमःप्रभायां षण्मासाः । एमेव य उव्वदृण त्ति यथोपपातविरहकाल उक्त एवमेवोद्वर्तनाविरहकालोऽपि जघन्यत उत्कर्षतश्च वाच्यः । ततः समस्तासु पृथिवीषु प्रत्येकमुद्वर्तनाविरहकालो जघन्यत एक: समयः । उत्कर्षतो रत्नप्रभायां चतुर्विंशतिमुहर्ताः । शर्कराप्रभायां सप्ताहोरात्राः । वालुकाप्रभायां पक्षः । पङ्कप्रभायां मासः । धूमप्रभायां द्वौ मासौ । तमःप्रभायां चत्वारो मासाः । तमस्तम:प्रभायां षण्मासाः । “संखा पुण सुरवरूतुल्ल त्ति' उपपात उद्वर्तनायां च सङ्ख्या पुनरेकस्मिन् समये सुरवरतुल्या सुराणामिव द्रष्टव्या । तद्यथा- एकस्मिन् समये नारका उत्पद्यन्ते जघन्यपद एको द्वौ वा, उत्कर्षतः सङ्ख्याता असङ्ख्याता वा, एवमेव चोद्वर्तन्तेऽपीति ।।२८१८२॥” इति बृहत्संग्रहण्या मलयगिरिसूरिविरचितायां वृत्तौ ॥

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362