Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
कतिपयानि विशिष्टानि टिप्पनानि ।
प्रतिपत्तव्यम, तृतीयं षट्त्रिंशद्योजनसहस्राणि । एवं काण्डत्रयपरिमितो मेरुर्योजनलक्षप्रमाणः ।। मेरुस्स उवरि चूला, उव्विद्धा जोयणदुवीसं ॥३१४। एवं सव्वग्गेणं, समूसिओ मेरु लक्खमरित्तं । व्या० मेरोलक्षप्रमाणस्योपरि योजनसहस्रप्रमाणायामविष्कम्भस्योपरितनस्य तलस्य बहमध्यभागे द्वे विंशती (४०) योजनानामुद्विद्धा चूला, एवं सर्वात्मना परिमाणतश्चिन्त्यमानो 5 मेरुयोजनलक्षमतिरिक्तं भवति चत्वारिंशदधिकयोजनलक्षप्रमाणो भवतीत्यर्थः ।।" - इति बृहत्क्षेत्र० मलय० ।।
पृ०१४४ पं०२३] “साम्प्रतं महाहिमवतो जीवामाह- तेवन्न सहस्साई, नव य सया जोयणाण इगतीसा । जीवा महाहिमवए, अद्ध कला छक्कलाओ य ।।५६।। व्या०
महाहिमवति पर्वते जीवा त्रिपञ्चाशत्सहस्राणि नव शतानि एकत्रिंशदधिकानि योजनानां षट् कलाः 10 परिपूर्णा: अर्धकला च । तथाहि- महाहिमवतोऽवगाहो लक्षं पञ्चाशत्सहस्राणि १५०००० । अनेन
जम्बूद्वीपविष्कम्भः कलारूप एकोनविंशतिलक्षप्रमाण ऊनः क्रियते, ततो जातं शेषं सार्धाः सप्तदश लक्षा: १.७५०००७। एतावदवगाहेनोक्तरूपेण १५०००० गुण्यते, जातो द्विकः षट्कः द्विक: पञ्चक: अष्टो शून्यानि २६२५०००००००० । एष राशि: पुनश्चतुर्भिर्गुण्यते. जातः एककः शून्यं पञ्चकः
शून्यानि दश १००००००००००००, एष महाहिमवतो जीवावर्गः, अस्य वर्गमूलमानीयते, लब्धः 15 एकक: शून्य द्विक: चतुष्कः षट्कः नवकः पञ्चकः १०२४६९५ । शेषमुरितमेककः पञ्चक:
षट्क: नवक: सप्तकः पञ्चक: १५६९७५ । छेदराशि: द्विक: शून्यं चतुष्कः नवक: त्रिकः नवकः शून्यं २०४९३९० । वर्गमूललब्धस्य तु राशेर्योजनकरणार्थमेकोनविंशत्या भागो ह्रियते, लब्धानि योजनानां त्रिपञ्चाशत्सहस्राणि नव शतानि एकत्रिंशदधिकानि कलाः षट् ५३९३१ क० ६ । उरितस्तु कलाराशिरर्धकलानयनाय द्रिकेन गुण्यते, ततश्छेदराशिना भज्यते इति लब्धमेकं कलामिति 20 ।।५६ ॥” इति बृहत्क्षेत्र० मलय० ।
[पृ०१४८ पं०९] साम्प्रतमस्यैव महाहिमवतो धनु:पृष्ठं बाहां चाह– सत्तावन्न सहस्सा, धणुपटुं तेणउय दुसय दस य कला । बाहा बाणुउइ सया, छसत्तरा नव कलद्धं च ।।५७।। व्या० महाहिमवतो धनु:पृष्ठं सप्तपञ्चाशत्सहस्राणि द्वे शते त्रिनवत्यधिके योजनानां कला दश ।
तथाहि- महाहिमवत इषुः सार्धलक्षप्रमाणः १५००००, तस्य वर्गो द्विकः द्विक: पञ्चकः शून्यान्यष्टौ 25 २२८०००००००० । एष राशिः षभिर्गुण्यते, जात एकक: त्रिक: पञ्चकः शून्यानि नव
१३५०००००००००, एतत् प्रागभिहिते महाहिमवतो जीवावर्गे एककः शून्यं पञ्चक: शून्यानि दश १०५०००००००००० इत्येवंपरिमाणे प्रक्षिप्यते, जात एककः एकक: अष्टकः पञ्चकः शून्यानि नव ११८५०००००००००. अस्य वर्गमूलानयने लब्ध एककः शून्यम् अष्टकः अष्टकः पञ्चकः
सप्तकः सप्तक: १०८८५७७ । शेषमिदम् एकक: एककः पञ्चकः शून्यं सप्तक: एकक: ११५०७१ । 30 छेदराशिर्दिक: एककः सप्तकः सप्तकः एककः पञ्चक: चतुष्क: २१७७१५४ । वर्गमूललब्धस्य
कलाराशर्योजनानयनार्थमेकोनविंशत्या भागो ह्रियते, लब्धानि योजनानां सप्तपञ्चाशत्सहस्राणि द्वे शते

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362