Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 336
________________ कतिपयानि विशिष्टानि टिप्पनानि । [ पृ०४३ पं०८] "कहि णं भंते । विजयस्स देवस्स विजया णाम रायहाणी पण्णत्ता ?. गोयमा ! विजयस्स णं दारस्स पुरत्थिमेणं तिरियमसंखेज्जे दीवसमुद्दे वीतिवतित्ता अण्णंमि जंबुद्दीवे दीवे बारस जोयणसहस्साई ओगाहित्ता एत्थ णं विजयस्स देवस्स विजया णाम रायहाणी प० बारस जोयणसहस्साइं आयामविक्खंभेणं सत्ततीसजोयणसहस्साइं नव य अडयाले जोयणसए 5 किंचिविसेसाहिए परिक्खेवेणं पण्णत्ते.... ॥ [सू० १३५ ] || व्या०- कहि णं भंते! विजयस्सेत्यादि, क भदन्त ! विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता ? भगवानाह गौतम ! विजयस्य द्वारस्य पूर्वस्यां दिशि तिर्यग् असङ्ख्येयान् द्वीपसमुद्रान् व्यतिव्रज्य अतिक्रम्य अत्रान्तरे योऽन्यः जम्बूद्वीपः अधिकृतद्वीपतुल्याभिधानः, अनेन जम्बूद्वीपानामप्यसङ्ख्येयत्वं सूचयति, तस्मिन् द्वादश योजनसहस्राणि अवगाह्य अत्रान्तरे विजयस्य देवस्य योग्या विजया नाम राजधानी प्रज्ञप्ता मया 10 शेषैश्च तीर्थकृद्भिः, सा च द्वादश योजनसहस्राणि आयामविष्कम्भेण आयामविष्कम्भाभ्याम्, सप्तत्रिंशद् योजनसहस्राणि नव शतानि अष्टाचत्वारिंशानि अष्टचत्वारिंशदधिकानि किञ्चिद्विशेषाधिकानि परिक्षेपेण, इदं च परिक्षेपपरिमाणं विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होई' [ ] इति करणवशात् स्वयमानेतव्यम् ॥” इति जीवाभिगमसूत्रे तृतीयायां प्रतिपत्तौ प्रथमे उद्देश मलयगिरिसूरिविरचितायां वृत्तौ ॥ ७ 15 [पृ०६० पं०१५, पृ०१५९, पं०२] “सयभिसया भरणीओ अद्दा अस्सेस साइ जेट्टा य । एए छ नक्खत्ता पणयालमुहुत्तसंजोगा ||७ / १६० ।। टी० शतभिषक् भरणी आर्द्रा अश्लेषा स्वाति: ज्येष्ठा चः समुच्चये एतानि षट् नक्षत्राणि पञ्चदश मुहूर्तान् यावत् चन्द्रेण सह संयोगः सम्बन्धो येषां तानि तथा, तद्यथा- एतेषां षण्णामपि नक्षत्राणां प्रत्येक सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सत्कान् सार्द्धान् त्रयस्त्रिंशद्भागान् यावच्चन्द्रेण सह योगो भवति ततो 20 मुहूर्त्तगतसप्तषष्टिभागकरणार्थं त्रयस्त्रिंशत् त्रिंशता गुण्यन्ते जातानि नव शतानि नवतानि नवत्यधिकानि ९९० यदपि चार्द्धं तदपि त्रिंशता गुणयित्वा द्विकेन भज्यते लब्धाः पञ्चदश मुहूर्तस्य सप्तषष्टिभागास्ते पूर्वराशी प्रक्षिप्यन्तं जातः पूर्वराशिः सहस्रं पञ्चोत्तरम् १००५, अस्य सप्तषष्ट्या भागे हते लब्धाः पञ्चदश मुहूर्त्ता इति । तथा - "तिण्णेव उत्तराई पुणव्वसू रोहिणी विसाहा य । एए छ नक्खत्ता पणयालमुहुत्तसंजोगा ||७ / १६० ।। टी० तिस्र उत्तराः उत्तरफल्गुनी उत्तराषाढा उत्तरभद्रपदा 25 इत्येवंरूपा: पुनर्वसू रोहिणी विशाखा, चः समुच्चये, एतानि एवकारस्य भिन्नक्रमत्वादेतान्येवेति योज्यम्, सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात् षड् नक्षत्राणि पञ्चचत्वारिंशतं मुहूर्तान् यावच्चन्द्रेण सह संयोगो येषां तानि तथा तद्यथा - अत्रापि षण्णां नक्षत्राणां प्रत्येकं सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सत्कानां भागानां शतमेकमेकस्य च भागस्यार्द्धं चन्द्रेण सह योगस्तत्रैषां भागानां मुहूर्त्तगतभागकरणार्थं शतं प्रथमतस्त्रिंशता गुण्यते जातानि त्रीणि सहस्राणि पञ्चदशोत्तराणि ३०१५, एतेषां सप्तषष्ट्या

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362