Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 327
________________ ३०८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे ऋषिपर्यायत्वात्, तथा श्रुतमिति वैतदाख्यायते, परोक्षतया त्रैकालिकार्थावबोधनसहत्वादस्य, तथा श्रुताङ्गमिति वा श्रुतस्य प्रवचनस्य पुरुषरूपस्याङ्गम् अवयव इति कृत्वा, तथा श्रुतसमास इति [वा] समस्तसूत्रार्थानामिह संक्षेपेणाभिधानात्, श्रुतस्कन्ध इति वा श्रुतांशसमुदायरूपत्वादस्य, समाए इ व त्ति समवाय इति वा, 5 समस्तानां जीवादिपदार्थानामभिधेयतयेह समवायनात् मीलनादित्यर्थः, तथा एकादि संख्याप्रधानतया पदार्थप्रतिपादनपरत्वादस्य संख्येति वाऽऽख्यायते, तथा समस्तं परिपूर्णं तदेतदङ्गमाख्यातं भगवता, नेह श्रुतस्कन्धद्वयादिखण्डनेनाचारादाविवागतेति भावः, तथा अज्झयणं ति त्ति समस्तमेतदध्ययनमित्याख्यातं नेहोद्देशकादिखण्डनाऽस्ति शस्त्रपरिज्ञादिष्विवेति भावः, इतिशब्दः समाप्तौ । बेमि त्ति किल सुधर्मस्वामी 10 जम्बूस्वामिनं प्रत्याह स्म, ब्रवीमि प्रतिपादयामि एतत् श्रीमन्महावीरवर्द्धमानस्वामिनः समीपे यदवधारितमित्यनेन गुरुपारम्पर्यमर्थस्य प्रतिपादितं भवति, एवं च शिष्यस्य ग्रन्थे गौरवबुद्धिरुपजनिता भवति, आत्मनश्च गुरुषु बहुमानो दर्शित औद्धत्यं च परिहृतम्, अयमेवार्थः शिष्यस्य सम्पादितो भवति मुमुक्षूणां चायं मार्ग इत्यावेदितमिति समवायाख्य चतुर्थमङ्गं वृत्तितः समाप्तम् ।। नमः श्रीवीराय प्रवरवरपार्थाय च नमो नमः श्रीवाग्देव्यै वरकविसभाया अपि नमः । नमः श्रीसङ्घाय स्फुटगुणगुरुभ्योऽपि च नमो नमः सर्वस्मै च प्रकृतविधिसाहायककृते ।।१।। यस्य ग्रन्थवरस्य वाक्यजलधेर्लक्षं सहस्राणि च, चत्वारिंशदहो चतुर्भिरधिका मानं पदानामभूत् । तस्योच्चैश्चलुकाकृतिं निदधत: कालादिदोषात्तथा, दर्लेखात् खिलतां गतस्य कुधियः कुर्वन्तु किं मादृशाः ? ।।२।। 20 १. व्याख्यायत खं० । जे१ मध्ये पत्रं खण्डितम् ।। २. सदेत' जे२ हे१,२ ॥ ३. “सहायाद्वा' - सि० ७।०६२। “योपान्त्याद् गुरूपोत्तमादसुप्रख्यादकञ्' - सि० ७/११७२। ।।

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362