Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२६४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे अडयालकयवणमाल त्ति अष्टचत्वारिंशभेदभिन्नाः प्रशंसाऱ्या वा कृता वनमाला वनस्पतिपल्लवस्रजो येषु तानि तथा । तथा लाइयं ति यद् भूमेश्छगणादिनोपलेपनम् उल्लोइयं ति कुड्यमालानां सेटिकादिभिः सम्मृष्टीकरणम्, ततस्ताभ्यामिव महितानि पूजितानि लाउल्लोइयमहितानि । तथा गोशीर्षं चन्दनविशेष: सरसं च रसोपेतं 5 यद् रक्तचन्दनं चन्दनविशेषः, ताभ्यां दर्दराभ्यां घनाभ्यां दत्ताः पञ्चाङ्गुलयस्तला हस्तकाः कुड्यादिषु येषु, अथवा गोशीर्षसरसरक्तचन्दनस्य सत्का दर्दरेण चपेटाभिघातेन दर्दरेषु वा सोपानवीथीषु दत्ताः पञ्चाङ्गुलयस्तला येषु तानि गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि । तथा कालागुरुः कृष्णा
गुरुर्गन्धद्रव्यविशेष: प्रवरः प्रधानः कुन्दुरुक्कः चीडा तुरुष्कः सिल्हकं गन्धद्रव्यमेव 10 एतानि च तानि डझंत त्ति दह्यमानानि चेति विग्रहः, तेषां यो धूमो मघमघेत त्ति
अनुकरणशब्दोऽयं मघमघायमानो बहलगन्ध इत्यर्थः तेनोद्धराणि उत्कटानि यानि तानि तथा, तानि च तान्यभिरामाणि च रमणीयानीति समासः । तथा सुगन्धयः सुरभयो ये वरगन्धा: प्रधानवासास्तेषां गन्धः आमोदो येष्वस्ति तानि सुगन्धिवरगन्ध
गन्धिकानि । तथा गन्धवर्त्तिः गन्धद्रव्याणां गन्धयुक्तिशास्त्रोपदेशेन निर्वर्त्तिता 15 गुटिका, तद्भूतानि तत्कल्पानीति गन्धवर्तिभूतानि प्रवरगन्धगुणानीत्यर्थः । तथा
अच्छानि आकाशस्फटिकवत्, सण्ह त्ति श्लक्ष्णानि सूक्ष्मस्कन्धनिष्पन्नत्वात्, श्लक्ष्णदलनिष्पन्नपटवत्, लण्ह त्ति मसृणानीत्यर्थः, घुण्टितपटवत्, घट्ट त्ति घृष्टानीव घृष्टानि खरशानया पाषाणप्रतिमावत्, मट्ठ त्ति मृष्टानीव मृष्टानि सुकुमारशानया
पाषाणप्रतिमेव, शोधितानि वा प्रमार्जनिकयेव, अत एव नीरय त्ति नीरजांसि 20 रजोरहितत्वात्, निम्मल त्ति निर्मलानि कठिनमलाभावात्, वितिमिर त्ति वितिमिराणि
निरन्धकारत्वात्, विसुद्ध त्ति विशुद्धानि निष्कलङ्कत्वात्, न चन्द्रवत् सकलङ्कानीत्यर्थः । तथा सप्पह त्ति सप्रभाणि, सप्रभावाणि अथवा स्वेन आत्मना प्रभान्ति शोभन्ते प्रकाशन्ते वेति स्वप्रभाणि, यतः समिरीय त्ति समरीचीनि सकिरणानि अत एव १. च तानि यानि तानि तथा, तेषां यो हे२ । च यानि तानि तथा, यो हे१ ।। २. उत्कुटानि खं० जे२ ।। ३. नि:पंकत्वात् हे१.२ । नि:पंचकत्वात् जे२ ।।

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362