Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 291
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे क्रमेण द्वादश योजनानि त्रीणि गव्यूतानि चत्वारि चेति, पञ्चेन्द्रियतिरश्चां जलचराणां पर्याप्तानां गर्भजानां संमूर्च्छनजानां चोत्कर्षतो योजनसहस्रम् एवं स्थलचराणां चतुष्पदानां संमूर्च्छनजानां पर्याप्तानां गव्यूतपृथक्त्वम्, गर्भव्युत्क्रान्तिकानां तेषां षड् गव्यूतानि, उरः परिसर्पाणां गर्भव्युत्क्रान्तिकानां योजनसहस्रम् एषामेव सम्मूर्च्छनजानां 5 योजनपृथक्त्वम्, भुजपरिसर्पाणां गर्भजानां गव्यूतपृथक्त्वम्, सम्मूर्च्छनजानां धनुःपृथक्त्वम्, खचराणां गर्भजानां सम्मूर्छनजानां च धनुः पृथक्त्वमेव, तथा मनुष्याणां गर्भव्युत्क्रान्तिकानां गव्यूतत्रयम् सम्मूर्च्छनजानामङ्गुलासंख्येयभागः, एष एव सर्वत्र जघन्यपदे अपर्याप्तपदे चेति । २७२ तथा कइविहे णमित्यादि स्पष्टम्, नवरं विविधा विशिष्टा वा क्रिया विक्रिया, तस्यां 10 भवं वैक्रियम्, विविधं विशिष्टं वा कुर्वन्ति तदिति वैकुर्विकमिति वा, तत्रैकेन्द्रियवैक्रियशरीरं वायुकायस्य पञ्चेन्द्रियवैक्रियशरीरं नारकादीनाम् । एवं जावेत्यादेरतिदेशादिदं द्रष्टव्यम्, यदुत जइ एगिंदियवेउव्वियसरीरए किं वाउकाइयएगिंदियवेउव्वियसरीरए अवाउकाइयएगिंदियवेडव्वियसरीरए ?, गोयमा ! वाउकाइयएगिंदियसरीरए नो अवाउकाइय [प्रज्ञापना सू० १५१५] इत्यादिनाऽभिलापेनायमर्थो दृश्यः, यदि वायोः किं 15 सूक्ष्मस्य बादरस्य वा ?, बादरस्यैव, यदि बादरस्य किं पर्याप्तकस्या-ऽपर्याप्तकस्य वा ?, पर्याप्तकस्यैव, यदि पञ्चेन्द्रियस्य किं नारकस्य पञ्चेन्द्रियतिरश्चो मनुजस्य देवस्य वा ?, गौतम ! सर्वेषाम्, तत्र नारकस्य सप्तविधस्य पर्याप्तकस्येतरस्य च, यदि तिरश्चः किं सम्मूर्च्छिमस्य इतरस्य वा ?, इतरस्य, तस्यापि संख्यातवर्षायुष एवं पर्याप्तकस्य, तस्य च जलचरादिभेदेन त्रिविधस्यापि । तथा मनुष्यस्य गर्भजस्यैव, तस्यापि 20 कर्मभूमिजस्यैव, तस्यापि संख्यातवर्षायुष एव पर्याप्तकस्यैव च । तथा देवस्य भवनवास्यादेः, तत्रासुरादेर्दशविधस्य पर्याप्तकस्येतरस्य च, एवं व्यन्तरस्याष्टविधस्य ज्योतिष्कस्य पञ्चविधस्य, तथा यदि वैमानिकस्य किं कल्पोपपन्नस्य कल्पातीतस्य ? उभयस्यापि पर्याप्तस्यापर्याप्तस्य चेति । तथा वैक्रियं भदन्त ! किंसंस्थितम् ?, उच्यते, नानासंस्थितम्, तत्र वायोः ९. तस्यापिजल हे ॥

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362