Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 253
________________ २३४ आचार्यश्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे १ चित्तावत्थाणमेगवत्थुम्मि [ ध्यानश० ३] इत्यादि, आख्यायन्त इति सर्वत्र योग:, तथा प्राप्तानां च संयमोत्तमं सर्वविरतिं जितपरीषहाणां चतुर्विधकर्म्मक्षये घातिक्षये सति यथा केवलस्य ज्ञानादेर्लाभः पर्यायः प्रव्रज्यालक्षणो यावांश्च यावद्वर्षादिप्रमाण यथा येन तपोविशेषाश्रयणादिना प्रकारेण पालितो मुनिभिः पादपोपगतश्च 5 पादपोपगमाभिधानमनशनं प्रतिपन्नो यो मुनिर्यत्र शत्रुञ्जयपर्वतादौ यावन्ति च भक्तानि भोजनानि छेदयित्वा, अनशनिनां हि प्रतिदिनं भक्तद्वयच्छेदो भवति, अन्तकृतो मुनिवरो जात इति शेषः, तमोरजओघविप्रमुक्तः, एवं च सर्वेऽपि क्षेत्रकालादिविशेषिता मुनयो मोक्षसुखमनुत्तरं च प्राप्ता आख्यायन्त इति क्रियायोगः । एते अन्ये चेत्यादि प्राग्वत् । नवरं दस अज्झयण त्ति प्रथमवर्गापेक्षयैव घटते, 10 नन्द्यां तथैव व्याख्यातत्वात्, यच्चेह पठ्यते सत्त वग्ग त्ति तत् प्रथमवर्गादन्यवर्गापेक्षया, यतोऽत्र सर्वेऽप्यष्ट वर्गाः, नन्द्यामपि तथा पठितत्वात्, तद्वृत्तिश्चेयम्– अट्ठ वग्ग त्ति अत्र वर्गः समूहः, स चान्तकृतानामध्ययनानां वा, सर्वाणि चैकवर्गगतानि युगपदुद्दिश्यन्ते, अतो भणितम् ‘अट्ठ उद्देसणकाला' इत्यादि [ नन्दी० हारि० ], इह च दश उद्देशनकाला अधीयन्ते इति नास्याभिप्रायमवगच्छामः । तथा संख्यातानि पदशतसहस्राणि पदाग्रेणेति, 15 तानि च किल त्रयोविंशतिर्लक्षाणि चत्वारि च सहस्राणीति ॥८॥ [सू० १४४] से किं तं अणुत्तरोववातियदसातो ? अणुत्तरोववातियदसासु णं अणुत्तरोववातियाणं णगराई, उज्जाणाई, चेतियाई, वणसंडा, रायाणो, अम्मापितरो, समोसरणाई, धम्मायरिया, धम्मकहातो, इहलोइया पारलोइया १. “अंतोमुहुत्तमेत्तं चित्तावत्थाणमेगवत्थुम्मि । छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ।।३।। व्या०इह मुहूर्त्तः सप्तसप्ततिलवप्रमाण: कालविशेषो भण्यते । अन्तर्मध्यकरणे, ततश्चान्तर्मुहूर्त्तमात्रं कालमिति गम्यते, मात्रशब्दस्तदधिककालव्यवच्छेदार्थ:, ततश्च भिन्नमुहूर्तमेव कालम् किम् ? चित्तावस्थानमिति चित्तस्य मनसः अवस्थानं चित्तावस्थानम्, अवस्थिति: अवस्थानम्, निष्प्रकम्पतया वृत्तिरित्यर्थः क्व ? एकवस्तुनि, एकम् अद्वितीयं वसन्त्यस्मिन् गुणपर्याया इति वस्तु चेतनादि, एकं च तद्वस्तु एकवस्तु, तस्मिन् २ छद्मस्थानां ध्यानमिति, तत्र छादयतीति छद्म पिधानं तच्च ज्ञानादीनां गुणानामावारकत्वाज्ज्ञानावरणादिलक्षणं घातिकर्म छद्मनि स्थिताश्छद्मस्था अकेवलिन इत्यर्थः, तेषां छद्मस्थानाम्, ध्यानं प्राग्वत् || ३ ||" इति ध्यानशतके हारिभद्र्यां वृत्तौ ॥ २. " से किं तं अंतगडदसाओ..." [सू० ९२] इति नन्दीसूत्रस्य हरिभद्रसूरिविरचितायां वृत्तावेतदस्ति । नन्दीसूत्रस्य जिनदासगणिमहत्तरविरचितायां चूर्णावपि स्तोकं वर्णनमुपलभ्यते ॥

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362