Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
कतिपयानि विशिष्टानि टिप्पनानि ।
१९
पृ०१६७ पं०५] “अधुना हरिवर्षस्य जीवामाह- एगुत्तरा नव सया, तेवत्तरिमेव जोयणसहस्सा। जीवा सत्तरस कला, अद्धकला चेव हरिवासे ॥५८।। व्या० हरिवर्षे हरिवर्षाभिधस्य क्षेत्रस्य जीवा त्रिसप्ततिसहस्राणि नव शतानि एकोत्तराणि योजनानां कला: सप्तदश
अर्धकला च । तथाहि- हरिवर्षस्यावगाहस्त्रीणि लक्षाणि दश सहस्राणि ३१००००, अनेन 5 जम्बूद्वीपविष्कम्भः कलारूप एकोनविंशतिलक्षप्रमाणो हीनः क्रियते, जाता: शेषाः पञ्चदश लक्षा नवतिसहस्राणि १५९००००, एतदुक्तप्रमाणेनावगाहेन ३१०००० गुण्यते, जातः चतुष्क: नवक: द्विक: नवकः अष्टौ शून्यानि ४९२९०००००००० । एष राशिभूयश्चतुर्भिर्गुण्यते, जात एककः नवकः सप्तक: एककः षट्कः शून्यानि चाष्टौ १९७१६०००००००० । एष हरिवर्षस्य जीवावर्गः, अस्य
वर्गमूलानयने लब्ध एककः चतुष्कः शून्यं चतुष्कः एकक: त्रिकः षट्कः १४०४१३६ । शेष 10 तिष्ठति द्विक: शून्यं नवक: त्रिकः पञ्चकः शून्यं चतुष्क: २०९३५०४ । छेदराशिः द्विकः अष्टक:
शून्यम अष्टक: द्विकः सप्तकः द्विक: २८०८२७२ । ततो योजनकरणार्थं वर्गमूललब्धमेकोनविंशत्या भज्यते. लब्धानि योजनानां त्रिसप्ततिसहस्राणि नव शतानि एकोत्तराणि कला: सप्तदश ७३९०१ क० १७ । उद्धरितस्तु कलाराशिरर्धकलानयनाय द्विकेन गुण्यते, गुणयित्वा च यथोक्तप्रमाणेन
छेदराशिना भज्यते लब्धमेकं कलार्धम्, शेषस्त्वर्धकलाराशिरेवंरूपस्तिष्ठति एककः त्रिक: सप्तक: 15 अष्टक: सप्तक: त्रिकः षट्कः १३७८७३६ ॥५८॥” इति बृहत्क्षेत्र० मलय० ।
___ [पृ०१७९ पं०११] “साम्प्रतमस्यैव हरिवर्षस्य बाहां धनुःपृष्ठं चाह- बाहा तेर सहस्सा, एगट्ठा तिसय
सय छक्कलऽद्धकला । धणुपट्ट कलं चउक्कं, चुलसीड सहस्स सोलहिया ||५|| व्या० हरिवर्षस्य पूर्वस्यामपरस्यां च दिशि प्रत्येकं बाहापरिमाणं त्रयोदश सहस्राणि त्रीणि शतानि
एकषष्टानि एकषष्ट्यधिकानि योजनानां षट् कला: एकं च कलार्धम् । तथाहि- महतो धनु:पृष्ठात् 20 हरिवर्षसत्कात् चतुरशीतिर्योजनानां सहस्राणि षोडशाधिकानि कलाश्चतस्रः ८४०१६ क० ४
इत्येवपरिमाणात डहरकं धन : पष्ठ महाहिमवतः संबन्धि सप्तपञ्चाशत्सहस्राणि द्वे शते त्रिनवत्यधिके कला दश ५७२९३ क० १० इत्येवंपरिमाण शोध्यते. शोधिते च सति जातं शेषमिदम- षडविंशति: सहस्राणि सप्त शतानि द्वाविंशत्यधिकानि योजनानां त्रयोदश कला: २६७२२ क० १३, एतेषामधे
लब्धानि योजनानां त्रयोदश सहस्राणि त्रीणि शतानि एकषष्ट्यधिकानि षट् च कलाः सार्धाः १३३६१ 25 कला: ६ अर्धम् । तथा चतुरशीतिर्योजनानां सहस्राणि षोडशाधिकानि चतस्रः कला: ८४०१६
क० ४ इत्येतावत्परिमाणं हरिवर्षस्य धनुःपृष्ठम् । तथाहि- हरिवर्षस्येषुपरिमाणं तिम्रो लक्षा दश सहस्राणि ३१००००, अस्य वर्गो विधीयते, जातो नवकः षट्क: एककः शून्यान्यष्टौ ९६१०००००००० भूय एष राशिः षड्भिर्गुण्यते, आगतः पञ्चकः सप्तकः षट्कः षट्कः अष्टौ शून्यानि
५७६६००००००००। एतत् हरिवर्षक्षेत्रस्य सत्के एकक: नवकः सप्तक: एककः षट्क: शून्यान्यष्टौ 30 १९७१६०००००००० इत्येवंरूपे जीवावर्गे प्रक्षिप्यते, ततो जातो राशिरेवंप्रमाण:- द्विकः पञ्चकः

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362