Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh
View full book text
________________
३००
भद्रङ्करोदयाख्यव्याख्याविभूषिते
भक्तिश्रद्धानघुसृणोन्मिश्रपाटीरजद्रवैः। नवब्रह्माङ्गतो देवं शुद्धमात्मानमर्चय ॥२॥
दयाम्भसेत्यादि । वत्सेति सम्बोधनं प्रस्तावाल्लभ्यते । एव. मनिमश्लोकेष्वपि बोध्यम् । दयाम्भसा-दया परदुःखप्रहाणेच्छा. रूपा करुणा सैव शरीरमलस्य जलमिवाऽऽत्ममलस्य कषायादेः शोधकत्वादम्भो जलं तेन कृत्वा, कृतस्नान:-कृतं विहितं स्नानमात्मशरीरमलकषायादिप्रक्षालनं येन स तादृशः सन् । यथा जलेन शरीरस्य मलापगम आर्द्रता च तथा करुणया निवृत्तकषायः स्निग्धश्च सन्नित्यर्थः। स्नातस्याऽवश्यं वस्त्रपरिधानमित्याह-सन्तोषे. त्यादि । सन्तोषशुभवस्त्रभृत्-सन्तोषोऽधिकाऽभिलाषेणाऽव्यग्रता लब्धमात्रेण मनःप्रसादश्च स एव शुद्धत्वाच्छुभत्वान्मनश्वाञ्च. ल्याऽऽच्छादकत्वाच्च शरीराच्छादनं शुभमनुपहतं शुक्लं क्षौमादिवखं वासस्तद्विभर्तीति स तादृशः सन् । यथा वस्त्रं शरीराच्छादनं मर्यादारक्षणसाधनं च तथा सन्तोषोऽपि मनोवृत्ती मर्यादीकरोति लोभादिनिराकरणेन मनस आवरणं च करोतीति भावः । वस्त्रपरि. धानानन्तरं तिलकमाह-विवेकेत्यादि । विवेकतिलकभ्राजीविवेक आत्मानात्मभेदग्रहो विवेकाऽष्टकोक्तः स एवाऽऽत्मगुणेषु मूर्धन्यत्वाल्लल्लाटपट्टपुण्डूं तेन भाजते दीप्यत इति तादृशः सन् । ललाटे तिलकेन हि वपुः शोभते, तथाऽऽत्मा विवेकनैव शोभते इति भावः। अथाशयशुद्धिमाह-भावनेत्यादि । भावनापाबनाशय:-भावना शुभमनोवृत्ति विधेये प्रमादो मा भूदिति तदेकचित्तता च तया कृत्वा पावनो निष्कलुष उदात्तश्चाऽऽशयश्चित्त

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376