Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh

View full book text
Previous | Next

Page 363
________________ ३४६ भद्रङ्करोदयाख्यव्याख्याविभूषिते केवलया तपःसंयमादिरूपया, तदाराधनेनेति बोध्यम् । कृतःसम्पादितः, क्रियाऽऽसेवनजनितः, क्लेशक्षय:-क्लेशप्रदत्वात्कारणे कार्योपचाराक्लेशा रागादयस्तेषां क्षयो विनाशः, सः, मण्डूकचूर्णतुल्य:-मण्डूकस्य मेकस्य गाढनिद्रालीनस्य शुष्कशरीरस्य सञ्च. रिष्णुलोकादिपादाघातादिना जातं यच्चूर्ण सूक्ष्म कणचयस्तेन तुल्यः सदृशः । यथामण्डूकश्चूर्णितोऽपि नवजलसम्पर्कात्पुनरुजीवनं याति, तच्चूर्णत एव पुनर्मण्डूका उत्पद्यन्ते, तथा क्रियाकृतः क्लेशक्षयः पुनःकारणलाभे क्लेशहेतुतां याति, क्लेशस्य क्रियया न सर्वथा विनाश इति यावत् । पुनरिति भेदे । तानेवाह-दग्धेत्यादि । ज्ञानसारकृतः-ज्ञानसारप्रतिपादिततत्त्वबोधेन कृतः, केशक्षय इति सम्वध्यते । दग्धतच्चूर्णसदृश:-दग्धं भस्मतां प्रापितां यत्तस्य मण्डूकस्य चूर्णं तेन सदृशः। यथा-दग्धं मण्डूकचूर्ण नवोदकसम्पर्केऽपि न मण्डूकोत्पत्तये तथा ज्ञानेन जनितः लेशक्षयो न क्लेशान्तरोत्पादहेतुः। अयं भावः-क्रिया कर्म नाशबति, किन्तु सुबहुकपुण्यकर्मबन्धं प्रयोजयति चाऽऽस्रवरूपत्वात् । ततश्च तत्फलभोगकालेऽशुभकर्मबन्धो जायते । ज्ञानेन तु न केवलं क्लेशक्षय एव, कर्मबन्धोऽपि निरुध्यत इति न पुनः कारणसद्भावेऽपि क्लेशान्तरसम्भव इति । तदुक्तम्-" ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन इति । तस्माज्ज्ञानस हितैव क्रिया प्रशस्येति ज्ञानसारोऽवश्योपादेय इति ॥ ९ ॥ पत्र शिष्यप्रबोधाय परसम्मतिमप्याह

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376